SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Jain Education | माणुस्स खित्त जाई कुल रुवारोग्ग आउयं बुद्धी । सवणुग्गह सद्धा संजमो अ लोगंमि दुलहाई ॥ १५९ ॥ व्याख्या- 'मानुष्यम् ' मनुष्यभावः 'क्षेत्रम् ' आर्य 'जातिः' मातृसमुत्था 'कुलं' पितृसमुत्थम् 'रूपम् ' अन्यूनाङ्गता 'आरोग्यं' रोगाभावः 'आयुष्यं' जीवितं 'बुद्धि:' परलोकप्रवणा 'श्रवणं' धर्म्मसम्बद्धम् 'अवग्रहः' तदव - धारणम्, अथवा श्रवणाः - तपखिनः तेषामवग्रहः - सुन्दरा एत इत्यवधारणं श्रवणावग्रहः, श्रद्धा संयमश्च प्राग्वत्, | एतानि लोके दुर्लभानि, प्राक् चतुर्णी दुर्लभत्वमुक्तम्, इह तु मानुषत्वं क्षेत्रादीनामायुष्कपर्यन्तानामुपलक्षणं, श्रवणं च बुद्ध्यवग्रहयोः, पुनश्च मानुषत्वादीनामिहाभिधानं विशिष्टक्षेत्रादियुक्तानामेवैषां मुक्त्यङ्गत्वमिति ख्यापनार्थम्, केचिदेतत्स्थाने पठन्ति " इन्दियलद्धी निवत्तणा य पज्जत्ति निरुवहय खेमं । धाणारोग्गं सद्धा गाहग उवओग अट्ठो य ॥ १ ॥” 'इन्द्रियलब्धिः ' पञ्चेन्द्रियप्राप्तिः 'निर्वर्त्तना च' इन्द्रियाणामेव निष्पादना 'पर्याप्तिः' समस्तपर्यासिता 'णिरुवहय'त्ति निरुपहतम्, उपहतेरभावात्, सा च गर्भस्थस्य कुजत्वादिभिर्जातस्य च भित्त्यादिभिः, 'क्षेमम्' देशसौस्थ्यम् ' घ्राणम्' सुभिक्षं विभवो वा 'आरोग्यम्' नीरोगता 'श्रद्धा' उक्तरूपा 'ग्राहकः' शिक्षयिता गुरुः 'उपयोगः' स्वाध्यायाद्युपयुक्तता 'अर्थ' धर्म्मविषयमर्थित्वम्, एतानि दुर्लभानीति गम्यते, इह च पुनः | श्रद्धाग्रहणं तन्मूलत्वादशेषकल्याणानां तस्या दुर्लभतरत्वख्यापनार्थमिति गाथार्थः ॥ १५९ ॥ यदुक्तं - ' मनुष्यादि - - भावाङ्गानि दुर्लभानि' इति, तत्र मानुष्याङ्गदुर्लभत्वसमर्थनाय दृष्टान्तमा (ताना ) ह - For Private & Personal Use Only inelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy