________________
उत्तराध्य.
बृहद्वृत्तिः
॥१४४॥
en RIPARARISHASHISHAMISARICH!
दधर्माकर्णनं, 'श्रद्धा' धर्मकरणाभिलाषः, तपः-अनशनादिः तत्प्रधानः संयमः-पञ्चाश्रवविरमणादिस्तपःसंयमः, मध्य- चतुरङ्गीया
पदलोपी समासः, तपश्च संयमश्च तपःसंयममिति समाहारो वा तस्मिन् , 'वीर्य च' वीर्यान्तरायक्षयोपशमसमुत्था * ध्ययनम् शक्तिः, अस्य च द्विष्ठस्याप्येकत्वेन विक्षितत्वानोक्तसङ्ख्याविरोधः, एतानि भावाङ्गानि, 'खलु' निश्चितम् दुर्लभकानि भवन्ति संसारे, लिङ्गव्यत्ययश्च प्राकृतत्वाद् , एतच्चानुक्तावपि सर्वत्र भावनीयमिति गाथार्थः ॥१५६॥ इह द्रव्याङ्गेषु शरीराङ्गं भावाङ्गेषु च संयमः प्रधानमिति तदेकार्थिकान्याह
अंग दसभाग भेए अवयवाऽसगल चुण्ण खंडे अ।देस पएसे पवे साह पडल पज्जवखिले अ॥१५७॥ 8 दया य संजमे लज्जा, दुगुञ्छाऽछलणा इअ। तितिक्खा य अहिंसा य, हिरि एगट्ठिया पया ॥१५८ ॥ | व्याख्या-अङ्गं दशभागो भेदोऽवयवोऽसकलचूर्णः खण्डो देशः प्रदेशः पर्व शाखा पटलं पर्यवखिलं चेति शरीराङ्ग-4) पर्याया इति वृद्धाः। व्याख्यानिकस्तु अविशेषतोऽमी अङ्गपर्यायाः, तथा दशभाग इति दशा भाग इति च भिन्नावेव पर्यायावित्याह । चः समुच्चये, सूत्रत्वाच सुपः क्वचिदश्रवणमिति ॥ संयमपर्यायानाह-दया च संयमो लज्जा जुगुप्साऽछलना, इतिशब्दः खरूपपरामर्शकः पर्यन्ते योक्ष्यते, तितिक्षा चाहिंसा च हीश्चेत्येकार्थिकानि-अभिन्नाभिधेयानि पदानि सुबन्तशब्दरूपाणि, पर्यायाभिधानं च नानादेशजविनेयानुग्रहार्थमिति गाथाद्वयार्थः ॥१५७-१५८॥
॥१४४॥ क्षेत्रादिदुर्लभत्वोपलक्षणं चेह मानुष्यत्वादिदुर्लभत्वाभिधानमित्यभिप्रायेणाह
BREASONIPASSANॐ
Jain dan
For Privale & Personal use only
www.jainelibrary.org