________________
Jain Educati
| णाणावरणक्खओवसमजं तयं सवं ॥ १ ॥” प्रमीयते परिच्छिद्यतेऽनेनेति प्रमाणं तच्च द्रव्यक्षेत्रकालभावभेदाच्चतुर्विधं, | तत्रास्य क्षायोपशमिकभावरूपत्वेन भावप्रमाणेऽवतारः, यत आह - "दवाइ चउन्भेयं पमीयए जेण तं पमाणंति । इणमज्झयणं भावोति भावमाणे समोयरइ ॥ १ ॥” भावप्रमाणं च गुणनयसङ्ख्याभेदतस्त्रिधा तत्रास्य गुणप्रमाण| सङ्ख्याप्रमाणयोरेवावतारः, नयप्रमाणे तु यद्यपि श्रुतकेवलिनोक्तम्- 'अहिगारो तिहि उ ओसणं'ति, तथा ' णत्थि एहिं विहूणं सुत्तं अत्थो व जिणमए किंचि । आसज्ज उ सोयारं गए णयविसारओ बूया ॥ १ ॥ तथापि सम्प्रति तथाविधनयविचारणाव्यवच्छेदतोऽनवतार एव तथा च तेनैव भगवतोक्तम् - "मूढनॅइयं सुयं कालियं तु ण णया समोयरंति इहं । अपहुत्ते समोयारो नत्थि पहुत्ते समोयारो ॥ १ ॥ " तथा " जावंति अज्जवयरा अपहृत्तं कालियाणुभगस्स । तेणारेण पहुत्तं कालियसुयदिट्टिवाए य ॥ २ ॥” महामतिनाऽप्युक्तं- 'मैढणयं तु न संपइ णयप्पमाणे
श्रुतं समवतरति । यत् श्रुतज्ञानावरणक्षयोपशमजं तकत् सर्वम् ॥ १ ॥ १ द्रव्यादिचतुर्भेदं प्रमीयते येन तत्प्रमाणमिति । इदमध्ययनं भाव | इति भावमाने समवतरति ॥ १ ॥ २ अधिकारस्त्रिभिस्तु उत्सन्नमिति । ३ नास्ति नयैर्विहीनं सूत्रमर्थो वा जिनमते किञ्चित् । आसाद्य तु | श्रोतारं नयान् नयविशारदो ब्रूयात् ॥ १ ॥ ४ मूढनयिकं श्रुतं कालिकं तु न नयाः समवतरन्तीह । अपृथक्त्वे ( अनुयोगानां ) समवतारः | नास्ति पृथक्त्वे समवतारः || १॥ यावदार्यवज्रा अपृथक्त्वं कालिकानुयोगस्य । ततोऽर्वाक् पृथक्त्वं कालिकश्रुते दृष्टिवादे च । ५ मूढनयं तु न सम्प्रति नयप्रमाणेऽवतारस्तस्य.
ational
For Private & Personal Use Only
lainelibrary.org