SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥ १४ ॥ Jain Education ऽवयारो से” । गुणप्रमाणं तु द्विधा - जीवगुणप्रमाणमजीवगुणप्रमाणं च तत्रास्य जीवोपयोगरूपत्वाज्जीवगुणप्रमाणेऽवतारः, तस्मिन्नपि ज्ञानदर्शनचारित्रभेदतरूयात्मकेऽस्य ज्ञानरूपतया ज्ञानप्रमाणे, तत्रापि प्रत्यक्षानुमानोपमानाऽऽगमा|त्मके प्रकृताध्ययनस्याप्तोपदेशरूपतयाऽऽगमप्रमाणे, तत्रापि लौकिकलोकोत्तरभेदे परमगुरुप्रणीतत्वेन लोकोत्तरे सूत्रा|र्थोभयात्मनि, तथा चाह - " जीवाणण्णत्तणओ जीवगुणेणेह भावओ नाणे । लोउत्तरसुत्तत्थोभयागमे तस्स भावाओ | ॥ १ ॥” तत्राप्यात्मानन्तरपरम्परागमभेदतस्त्रिविधे अर्थतस्तीर्थकरगणधरतदन्तेवासिनः सूत्रतस्तु स्थविरतच्छि - ष्यतत्प्रशिष्यानपेक्ष्य यथाक्रममस्यात्मानन्तरपरम्परागमेष्ववतारः, सङ्ख्याप्रमाणमनुयोगद्वारादिषु प्रपञ्चितमिति तत एवावधारणीयं तत्र चास्य परिमाणसङ्ख्यायामवतारः, तत्रापि कालिकश्रुतदृष्टिवादश्रुतपरिमाणभेदतो द्विभेदायां | कालिकश्रुतपरिमाणसङ्ख्यायां, दिवा रात्रौ च प्रथमपश्चिमपौरुष्योरेवैतत्पाठनियमात् तत्रापि शब्दापेक्षया | सङ्खयेयाक्षरपादश्लोकाद्यात्मकतया सङ्घघातपरिमाणात्मिकायां पर्यायापेक्षया त्वनन्तपरिमाणात्मिकायाम्, अनन्तगमपर्यायत्वादागमस्य, तथा चाह - "अनंता गमा अनंता पज्जवा" इत्यादि । वक्तव्यता - पदार्थविचारः, सा च खप - रोभयसमयभेदतस्त्रिधा, तत्र खसमयः - अर्हन्मतानुसारिशास्त्रात्मकः, परसमयः - कपिलाद्यभिप्रायानुवर्तिग्रन्थखरूपः, | उभयसमयस्तूभयमतानुगतशास्त्रस्वभावः, तत्रास्य स्वसमयवक्तव्यतायामेवावतारः, स्वसमयपदार्थानामेवात्र वर्णनात्, १ जीवानन्यत्वाज्जीवगुणेनेह भावतो ज्ञाने । लोकोत्तरसूत्रार्थोभयात्मके तस्य भावात् । १ । २ अनन्ता गमा अनन्ताः पर्यवाः tional For Private & Personal Use Only अध्ययनम् १ ॥ १४ ॥ ainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy