SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥ १३ ॥ ततश्चतुर्विंशतेश्चतुष्केण भागहारः, तत्र लब्धाः षट् ६, ततश्चतुर्थपङ्क्तौ तावन्त एवाधोऽधश्चतुष्कत्रिकद्विकैककाः स्थाप्याः, यावज्जाता चतुर्विंशतिः, ततश्चाग्रेतनपङ्किस्थाङ्कपरिहारादिप्रागुक्तयुक्तित एव पङ्क्तिः पूरणीया । भूयः षट्कस्य त्रिकेण भागहारः, ततश्च लब्धो द्विकः, ततस्तृतीयपङ्क्तौ द्वौ त्रिकौ पुनर्द्वावेव द्विकौ भूय एककौ च द्वावधः स्थापनीयौ, | अधस्ताच्च पुरः स्थिताङ्कत्यागतो बृहत्सङ्ख्याङ्कन्यासतश्च विंशत्युत्तरसप्तशतप्रमाणैव पतिः पूरणीया । षड्भागहारलब्धस्य द्विकस्य विभजने लब्ध एकः, ततो द्वितीयपङ्क्तौ द्विक एककश्चैको विरचनीयः, तदधश्च पुरोदितपुरस्थापरिहारा - | दिन्यायतस्तावत्सङ्ख्यैवं द्वितीयपतिः कार्या । प्रथमपतिस्तु पुरस्थाङ्कपरिहारतः पूरणीया । उक्तं च - "गणितेऽन्त्यवि| भक्ते तु लब्धं शेषैर्विभाजयेत् । आदावन्ते च तत्स्थाप्यं, विकल्पगणिते क्रमात् ॥ १॥ " इह च परस्परगुणनागतराशिर्गणितमुच्यते, शेषास्तु षट्कापेक्षया पञ्चकादयः, 'आदा' विति च षष्ठपङ्क्तौ, 'अन्त' इति च पञ्चमादिपङ्काविति । उक्ताऽऽनुपूर्वी, सम्प्रति नाम, तत्र नमति - ज्ञानरूपादिपर्याय भेदानुसारतो जीवपरमाण्वादिवस्तुप्रतिपादकतया प्रह्वीभवतीति नाम, तथा चाह - "जं वैत्थुणोऽभिहाणं पज्जवभेयाणुसारि तं नाम । पइभेयं जं णमए पइभेयं जाइ जं भणियं ॥१॥” तच्चैकनामादि दशनामान्तम्, इह तु षडिधनाम्नौदयिकादिषड्भावरूपेणाधिकारः, तदन्तर्भूतक्षायोपशमिकभावे श्रुतज्ञानात्मकत्वेन प्रस्तुताध्ययनस्यावतारात्, आह च - "छेत्रिहणामे भावे खओवसमिए सुयं समोयरइ । जं सुय१ यद्वस्तुनोऽभिधानं पर्यायभेदानुसारि तन्नाम । प्रतिभेदं यन्नमति प्रतिभेदं याति यद्भणितम् ॥ १ ॥ २ षड्विधनानि भावे क्षायोपशमिके Jain Educatiouational For Private & Personal Use Only अध्ययनम् १ ॥ १३ ॥ Painelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy