SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ सतराष्य. ३ | नात्मिकया तयाऽधिकार इति सैव भण्यते तत्रोत्कीर्तनं विनयश्रुतं परीषहाध्ययनं चतुरङ्गीयमित्यादि संशब्दनं, गणनं सङ्ख्यानं, तच्च पूर्वानुपूर्वीपश्चानुपूर्वी अनानुपूर्वीभेदतस्त्रिविधं तत्र पूर्वानुपूर्व्या गण्यमानमिदमध्ययनं प्रथमं, पश्चानुपूर्व्या षट्त्रिंशत्तमम्, अनानुपूर्व्या त्वस्यामेवैकाद्ये कोत्तरपत्रिंशद्गच्छगतायां श्रेण्यामन्योऽन्याभ्यासतो द्विरूपोनसङ्ख्याभेदं भवति, उक्तं च- "एकाद्या गच्छपर्यन्ताः, परस्परसमाहताः । राशयस्तद्धि विज्ञेयं, विकल्पगणिते फलम् ॥ १ ॥" इह चासम्मोहाय षट्पदाङ्गीकारतः प्रस्तारानयनोपाय उच्यते तत्र चैकादीनि षडन्तानि षट् पदानि स्थाप्यन्ते तानि चान्योऽन्यं गुण्यन्ते, ततश्च जातानि सप्त शतानि विंशत्युत्तराणि तेषां चान्त्येन षङ्केन भागहारः, तत्र लब्धं विंशत्युत्तरं शतं १२०, इयन्तः षष्ठपङ्क्तौ षट्का न्यस्यन्ते, तदधस्तावन्त एव क्रमेण पञ्चकचतुष्ककत्रिकद्विकैककाः स्थाप्याः, इत्थं जातानि षष्ठपङ्क्तौ सप्त शतानि विंशत्युत्तराणि । ततो विंशत्युत्तरशतस्य पञ्चकेन | भागहारः, तत्र च लब्धा चतुर्विंशतिः २४, तावत्सङ्ख्याः पञ्चमपङ्कौ क्रमेण पञ्चकचतुष्कत्रिकद्विकैकका न्यस्याः, जातं विंशत्युत्तरं शतं, तस्य चाधस्तादग्रेतनपङ्क्तिस्थमङ्कमपहाय यथामहत्सङ्ख्यमङ्कविन्यासः, तत्राग्रेतनपङ्क्तिस्थः |पञ्चकस्तत्परित्यागतश्च सर्वबृहत्सङ्ख्यः षट्कश्चतुर्विंशतिवारानधः स्थाप्यते, ततस्त्रिकापेक्षया चतुष्को द्विकापेक्षया च त्रिक एककापेक्षया च द्विको बृहत्सङ्ख्यः तत एककश्च तावत एव वारान् न्यसनीयः, जातं पुनर्विशत्युत्तरं शतम्, | एवमग्रेतनपङ्क्तिस्थचतुष्कत्रिकद्विकैकपरिहारतस्तथैव तावन्नेयं यावत्पञ्चमपतावपि पूर्णानि सप्त शतानि विंशत्युत्तराणि । For Private & Personal Use Only linelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy