SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥ १२ ॥ Jain Education ! | मिख्याः पञ्च खरूपसत्तात्मयोन्यभिप्रायाः” इति, ततस्तस्य परचित्तवर्तिनः संवेदनाविषयतया विप्रकर्षवत इङ्गिताकारादिना परिज्ञानतः सन्निहितकरणं ज्ञातस्य वा तथाऽननुगुणानुगुणचित्रचेष्टातः कुपितप्रसन्नतापादनं भावोपक्रम एव स चावश्यमिहाभिधेयः, तदन्तर्गतत्वात् गुरुभावोपक्रमस्य तस्य च सकलानुयोगप्रथमाङ्गत्वात्, उक्तं च - " भण्णे वक्खाणंगं गुरुचित्तोवकमो पढमं" ति, शेषोपक्रमाणामपि चैतदङ्गत्वात्, तथा चाह - "जुत्त | गुरुमयग्रहणं को सेसोवकमोवयारोऽत्थ ? । गुरुचित्तपसायत्थं तेऽवि जहाजोगमाजोजा ॥ १ ॥ परिकम्मणासणाओ | देसे काले य जे जहा जोगा । तो ते दवाईणं कज्जाऽऽहाराइकजेसुं ॥ २ ॥" तत एतदभिधानाय द्रव्योपक्रमाद्वावोपक्रमः पृथगुच्यते, स च द्विविधः - प्रशस्ताप्रशस्तभेदात्, तत्राप्रशस्तो ब्राह्मणीगणिकाऽमात्यदृष्टान्ततोऽवसेयः, प्रशस्तश्च शिष्यस्य श्रुतादिहेतोर्गुरुभावोन्नयनं यत आह - " सीसी गुरुणो भावं जमुवकमए सुहं पसत्थमणो । सहियत्थं स पसत्थो इह भावोवकमोऽहिगतो ॥ १ ॥" इत्युक्तो लौकिक उपक्रमः, शास्त्रीयस्त्वानुपूर्वीनामप्रमा| वक्तव्यताऽर्थाधिकारसमवतारात्मकः, तत्रानुपूर्वी नामादिदशप्रकारा अन्यत्र प्रपञ्चत उक्ता, इह पुनरुत्कीर्तनगण १ भण्यते व्याख्यानाङ्गं गुरुचित्तोपक्रमः प्रथमम् । २ युक्तं गुरुमतग्रहणं कः शेषोपक्रमोपचारोऽत्र । गुरुचित्तप्रसादार्थ तेऽपि यथायोगमायोज्याः ॥ १ ॥ परिकर्मनाशनाभ्यां देशे काले च ये यथा योग्याः । ततस्ते द्रव्यादीनां कार्या आहारादिकार्येषु ॥ २ ॥ ३ शिष्यो गुरोर्भावं यदुपक्रमते शुभं प्रशस्तमनाः । स्वहितार्थ स प्रशस्त इह भावोपक्रमोऽधिकृतः ॥ १ ॥ For Private & Personal Use Only अध्ययनम् १ ॥ १२ ॥ elibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy