________________
उत्तराध्य.
बृहद्वृत्तिः
॥१४३॥
| भवति, आमोडकः पुष्पोन्मिश्रो वालबन्धविशेषः, स्फारत्वादस्य, इत्थं दृष्टान्ताभिधायितयेदं व्याख्यायते, प्रसङ्गतो | वाऽभ्यङ्गामोडकाङ्गयोरप्यभिधानमिति सूत्रार्थः ॥ १५२ ॥ शरीराङ्गमाह
सीसं उरो य उदरं पिट्टी बाहा य दुन्नि ऊरू य । एए खलु अटुंगा अंगोवंगाइ सेसाई ॥ १५३ ॥
व्याख्या- 'शिरश्च उरः, चः प्राग्वद्, उदरं 'पिट्ठि'त्ति प्राकृतत्वात्पृष्ठं बाहू द्वौ उरू च एतान्यष्टाङ्गानि, प्राग्वलि - ङ्गव्यत्ययः, 'खलुः' अवधारणे, एतान्येवाङ्गानि, अङ्गोपाङ्गानि 'शेषाणि' नखादीनि उपलक्षणत्वादुपाङ्गानि च कर्णादीनि, यत उक्तम् - " होंति उवंगा कण्णा णासच्छी जंघ हत्थ पाया य । गह केस मंसु अंगुलि ओट्ठा खलु अंगुवंगाई ॥ १ ॥” इति गाथार्थः ॥ १५३ ॥ साम्प्रतं युद्धाङ्गमाह
जाणावरणपहरणे जुद्धे कुसलत्तणं च नीई अ । दक्खत्तं ववसाओ सरीरमारोग्गया चेव ॥ १५४ ॥
व्याख्या- ' जाणावरणपहरणे'त्ति यानं च-हस्त्यादि, तत्र सत्यपि न शक्नोत्यभिभवितुं शत्रुम् अत आवरणं-कवचादि, सत्यप्यावरणे प्रहरणं विना किं करोतीति प्रहरणं च खङ्गादि, यानावरणप्रहरणानि, यदि युद्धे कुशलत्वं नास्ति किं यानादिना ? इति 'युद्धे' सङ्ग्रामे 'कुशलत्वं च' प्रावीण्यरूपं, सत्यप्यस्मिन्नीतिं विना न शत्रुजयनम् १ भवन्त्युपाङ्गानि कर्णौ नासाऽक्षिणी जो हस्तौ पादौ च । नखाः केशाः श्मश्रूणि अङ्गुलय ओष्ठौ खल्वङ्गोपाङ्गानि ॥ १ ॥
Jain Educationtional
For Private & Personal Use Only
चतुरङ्गीया ध्ययनम्
॥१४३॥
jainelibrary.org