________________
EXAM.
न तु विषादः, 'एवम्' अमुना प्रकारेण 'आश्वासय' खस्थीकुरु, कम् ?-आत्मानं, मा वैक्लव्यं कृथा इत्यर्थः, उक्तमेव || हेतुं निगमयन्नाह-ज्ञात्वा कर्मविपाकं, कर्मणां कुत्सितविपाकम्। इत्थं प्रज्ञाऽपकर्षमाश्रित्य सूत्रद्वयं व्याख्यातम् , एत-| देव तदुत्कर्षपक्ष एवं व्याख्यायते-प्रज्ञोत्कर्षवतवं परिभावनीयं-से' इत्युपन्यासे नूनं मया पूर्व 'कर्माणि' अनुष्ठानानि ज्ञानप्रशंसादीनि, ज्ञानमिह विमर्शपूर्वको बोधः, तत्फलानि कृतानि येनाहं ना अपिशब्दस्य लुप्तनिर्दिष्टत्वान्नाऽपि-पुरुपोऽप्यभिजानामि 'पृष्टः' पर्यनुयुक्तः 'केनापि' अविवक्षितविशेषेण, सर्वेणापीत्यर्थः, 'कस्मिंश्चिद्'यत्र तत्रापि वस्तुनि, अथे'त्युत्कर्षानन्तरम् 'अपत्यत्ति अपथ्यानि आयतिकटुकानि कर्माण्यज्ञानफलानि 'उदिजंति'त्ति सूत्रत्वात्तिव्यत्ययेनोदेष्यन्ति, वर्तमानसामीप्ये वर्तमानवद्वा(पा०३-३-१३१)इत्यनेन वर्तमानसामीप्ये वा लटि उदीर्यन्ते, सन्निहितकाल एवोदेष्यन्तीत्यर्थः, अयं चाशयः-उत्सेको हि ज्ञानावरणकारणमवश्यवेद्यं च तत् , तदुदये च कुतो ज्ञानम् ?, अनियते वाऽस्मिन्क उत्सेकः १, इत्येवमालोचयन्नाश्वासय-प्रज्ञावलेपावलुप्तचेतनमात्मानं खस्थीकुरु ज्ञात्वा कर्मविपाकम् , इह च तब्रन्यायेन युगपदर्थद्वयसम्भवः, तत्रं च दैर्घ्यप्रसारिताः तन्तवः, ततो यथा तदेकमनेकस्य तिरश्चीनस्य तन्तोः सङ्क्राहि तथा यदेकेनानेकार्थस्याभिधानं स तत्रन्याय इति सूत्रद्वयार्थः ॥४०-४१ ॥
अत्र सूत्रद्वारं, सूत्रं चागमः, अस्मिंश्च प्रस्तुतसूत्रसूचितमुदाहरणमाह* उज्जेणी कालखमणा सागरखमणा सुवण्णभूमीए । इंदो आउयसेसं पुच्छेइ सादिवकरणं च ॥१२०॥
ORAKHISAR
उत्तराध्य.२२
SainEducation
For Privale & Personal use only
nelibrary.org