________________
णायेति गम्यते, तन्तुभ्यो जातं तन्तुजं, पठ्यते च-'तंतय'ति तत्र तत्रं-वेमविलेखन्याञ्छनिकादि तस्माजातं तत्रजम् , उभयत्र वस्त्रं कम्बलो वा, तृणैस्तर्जिताः-निर्भसिंताः तृणतर्जिताः, किमुक्तं भवति ?-यद्यपि तृणैरत्यन्तविलिखितशरीरस्य रविकिरणसम्पर्कसमुत्पन्नखेदवशतः क्षतक्षारनिक्षेपरूपैव पीडोपजायते तथाऽपि-'प्रदीप्ताङ्गारकल्पेषु, वज्रकुण्डेष्वसन्धिषु । कूजन्तः करुणं केचित् , दह्यन्ते नरकाग्निना ॥१॥ अग्निभीताःप्रधावन्तो, गत्वा वैतरणी नदीम् । शीततोयामिमां ज्ञात्वा, क्षाराम्भसि पतन्ति ते ॥२॥ क्षारदग्धशरीराश्च, मृगवेगोत्थिताः पुनः। असिप
वनं यान्ति, छायायां कृतबुद्धयः ॥ ३ ॥ शक्त्यष्टिप्रासकुन्तैश्च, खड्गतोमरपट्टिशैः । छिद्यन्ते कृपणास्तत्र, पतद्भिातकम्पितैः ॥ ४॥' इत्यादिका रौद्रतरा नरकेषु परवशेन मयाऽनुभूता वेदनास्तत्कियतीयं ?, भूयांश्च लाभः स्ववशस्य सम्यक् सहन इति परिभावनातो न तत्परिजिहीर्षया वस्त्रं कम्बलादिकमुपाददते, जिनकल्पिकापेक्षं चैतत् , | स्थविरकल्पिकाश्च सापेक्षसंयमत्वात्सेवन्तेऽपीति सूत्रार्थः ॥ ३५ ॥ अत्र संस्तारद्वारमनुसरन् ‘तिउला हवइ वेयण'त्ति ।
सूत्रसूचितमुदाहरणमाह|सावत्थीइ कुमारो भद्दो सो चारिओत्ति वेरजे । खारेण तच्छियंगो तणफासपरीसहं विसहे ॥११६॥3 ___ व्याख्या-श्रावस्त्यां कुमारो भद्रः स 'चारिकः' चर इति वैराज्ये क्षारेण तक्षिताङ्गः तृणस्पर्शपरीपहं 'विसहे'त्ति विषहते, स्मेति विशेष इति गाथार्थः॥ ११७ ॥ भावार्थस्तु सम्प्रदायावसेयः, स चायम्
Jain Educatio
n
ational
For Privale & Personal use only
M
ainelibrary.org