________________
RASACARRRRRR%AA-%AS
भिक्खं हिंडतो सयणमारगोत्ति लोएणं अक्कोसिजइ णाणापगारेहिं अक्कोसेहिं, सो सम्मं सहइ, सहतस्स केवलआणाणं समुप्पण्णं ॥ एवमन्यैरपि साधुभिः आक्रोशपरीषहः सोढव्यः ॥ कश्चिदाक्रोशमात्रेणातुष्यन्नधमाधमो वधमपि
विदध्यादिति वधपरीषहमाहहै हओण संजले भिक्खू , मणंपिणो पउस्सए। तितिक्खं परमंणच्चा, भिक्खुधम्ममि चिंतए॥२६॥(सूत्रम्)
व्याख्या-'हतः' यष्ट्यादिभिः ताडितो 'न सवलेत्' कायतः कम्पनप्रत्याहननादिना वचनतश्च प्रत्याक्रोशदानादिना भृशं ज्वलन्तमिवात्मानं नोपदर्शयेत् , भिक्षुः 'मनः' चित्तं तदपि 'न प्रदूषयेत्' न कोपतो विकृतं कुर्वीत, किन्तु 'तितिक्षा' क्षमां-धर्मस्य दया मूलं न चाक्षमावान् दयां समाधत्ते । तस्माद्यः शान्तिपरः स साधयत्युत्तमं धर्मम् ॥१॥' इत्यादिवचनतः 'परमां' धर्मसाधनं प्रति प्रकर्षवतीं 'ज्ञात्वा' अवगम्य 'भिक्षुधर्म' यतिधर्म, यद्वा भिक्षुधर्म क्षान्त्यादिकं वस्तुखरूपं वा चिन्तयेत् , यथा-क्षमामूल एव मुनिधर्मः, अयं चास्मन्निमित्तं कर्मोपचिनोति, अ दोष एवायम् , अतो नेम प्रति कोप उचित इति सूत्रार्थः॥ २६ ॥ अमुमेव प्रकारान्तरेणाहसमणं संजयं दंतं, हपिणज्जा कोऽवि कत्थवि।नस्थि जीवस्स नासुत्ति, ण तं पेहे असाहुवं॥२७॥(सूत्रम्)| १ मिक्षां हिण्डमानः स्वजनमारक इति लोकेनाक्रोश्यते नानाप्रकारैराक्रोशैः स सम्यक् सहते, सहमानस्य केवलज्ञानं समुत्पन्नम् ।
anEducation
For Private & Personal use only