SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. परीपहाध्ययनम् बृहद्वृत्तिः ॥११४॥ व्याख्या-'समणं' श्रमणं सममनसं वा-तथाविधवधेऽपि धर्म प्रति प्रहितचेतसं, श्रमणश्च शाक्यादिरपि स्यादित्याह-'संयतं' पृथ्व्यादिव्यापादननिवृत्तं, सोऽपि कदाचिल्लाभादिनिमित्तं बाह्यवृत्त्यैव सम्भवेदत आह-'दान्तम् इन्द्रियनोइन्द्रियदमेन 'हन्यात्' ताडयत्, 'कोऽपि' इति तथाविधोऽनार्यः 'कुत्रापि' ग्रामादौ, तत्र किं विधेयमित्याहनास्ति 'जीवस्य' आत्मन उपयोगरूपस्य 'नाशः' अभावः, तत्पर्यायविनाशरूपत्वेन हिंसाया अपि तत्र तत्राभिधानाद्, |'इती'त्यस्माद्धेतोः न 'त'मिति घातकं प्रेक्षेत असाधुमहति यत्प्रेक्षणं भृकुटिभङ्गादियुक्तं तदसाधुवत्, किन्तु सारिपुजयं प्रति सहायोऽयमितिधिया साधुवदेव प्रेक्षेतेति भावः, अथवा अपेर्गम्यमानत्वान्न तं प्रेक्षेतापि असाधुना तुल्यं वर्तते इति असाधुवत् , किं पुनरपकारायोपतिष्ठेत् संक्लिनाति वा', असाधुर्हि सत्यां शक्ती प्रत्यपकारायोपतिते असत्यां तु विकृतया दृशा पश्यति सक्लेशं वा कुरुत इत्येवमभिधानं, पठ्यते च-'न य पेहे असाधुयं ति चकारस्थापिशब्दार्थस्य भिन्नक्रमत्वात् प्रेक्षेतापि न-चिन्तयेदपि न, काम् ?-'असाधुतां' तदुपरि द्रोहखभावांत, पठन्ति च-एवं पेहिज संजतो' इति सूत्रार्थः ॥ २७॥ अधुना वणेत्ति द्वारं, तत्र 'हतो न सज्यलेदि' त्यादि सूत्रमर्थतः स्पृशन्नुदाहरणमाह-. सावत्थी जियसत्तू धारणि देवी य खंदओ पुत्तो। धूआ पुरंदरजसा दत्ता सा दंडईरणो ॥ १११॥ मुणिसुवयंतेवासी खंदगपमुहा य कुंभकारकडे । देवी पुरंदरजसा दंडइ पालग मरूए य ॥ ११२ ॥ ॥११ Jain Education intentional For Privale & Personal use only www.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy