SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २- परीपहा. ध्ययनम् उत्तराध्य. लाढः, प्रशंसाभिधायि वा देशीपदमेतत् , पठ्यते च-'एग एगे चरे लाढं' ति, तत्र चैकः-असहायःप्रतिमाप्रतिपन्नादिः बृहद्धृत्तिः स चैको रागादिवैकल्याद्' 'अभिभूय' निर्जित्य 'परीपहान्' क्षुदादीन् , क पुनश्चरेदित्याह-'ग्रामे' चोक्तरूपे 'नगरेवा' करविरहितसन्निवेशे 'अपिः' पूरणे 'निगमे वा' वणिग्निवासे 'राजधान्यां' वा प्रसिद्धायाम् , उभयत्र वाशब्दानुवृत्तः, ॥१०७॥ मडम्बाद्युपलक्षणं चैतद्, आग्रहाभावं चानेनाहेति सूत्रार्थः ॥ १८॥ पुनःप्रस्तुतमेवाह १ असमाणो चरे भिक्खू, नेव कुजा परिग्गहं । असंसत्तो गिहत्थेहिं, अनिकेओ परिवए ॥१९॥ (सूत्रम्) | व्याख्या-न विद्यते समानोऽस्य गृहिण्याश्रयामूछितत्वेन अन्यतीर्थिकेषु वाऽनियतविहारादिनेत्यसमानःअसदृशो, यद्वा समानः-साहङ्कारो न तथेत्यसमानः, अथवा (अ)समाणो' त्ति प्राकृतत्वादसन्निवासन् , यत्रास्ते तत्राप्यसंनिहित एवेति हृदयं, सन्निहितो हि सर्वः स्वाश्रयस्योदन्तमावहति अयं तु न तथेत्येवंविधः सन् 'चरेत् , अप्रतिबद्धविहारतया विहरेत् 'भिक्षुः' यतिः, कथमेतत् स्यादित्याह-नैव कुर्यात् 'परिग्रहं' ग्रामादिषु ममत्वबुद्ध्यात्मकम् , अत्राह च-"गामे कुले वा नगरे व देसे, ममत्तभावं ण कहिंचि कुज्जा", इदमपि यथा स्यात्तथाह-'असंसक्तः' असम्बद्धो 'गृहस्थैः' गृहिभिः 'अनिकेतः' अविद्यमानगृहो, नैकत्र बद्धास्पदः, 'परिव्रजेत्' सर्वतो विहरेत् , न (ना) नियतदेशादौ गृहिसम्पर्कः, एकत्र बद्धास्पदत्वे नियतदेशादिविहारितायां वा स्यादपि ममत्वबुद्धिः, तदभावे १ ग्रामे कुले वा नगरे वा देशे, ममत्वभावं न कुत्रचित्कुर्यात् । OCTORSCOCOCOCCURRORS-NoC ॥१०७॥ Jain Education For Private & Personal use only
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy