________________
-
गामाणुगामं रीयंतं, अणगारमकिंचणं । अरई अणुष्पविसे, तं तितिक्खे परीसहं ॥ १४॥ (सूत्रम् ) व्याख्या - ग्रसते बुद्ध्यादीन् गुणान् इति ग्रामः स च जिगमिषितः अनुग्रामश्च - तन्मार्गानुकूलः अननुकूलगमने प्रयोजनाभावाद् ग्रामानुग्रामं, यद्वा ग्रामश्च महान् अणुग्रामश्च स एव लघुग्रमाणुग्रामम्, अथवा - ग्राममिति रूढि - | शब्दत्वादेकस्माद्रामादन्यो ग्रामः ततोऽपि चान्यो ग्रामानुग्राममुच्यते, नगरोपलक्षणमेतत्, ततो नगरादींश्च, किमि - त्याह- 'रीयंतं' ति तिङ्ग्यत्ययाद्रीयमाणं-विहरन्तम् 'अनगारम्' उक्तखरूपम् 'अकिञ्चनं' नास्य किञ्चन प्रतिबन्धा - |स्पदं धनकनकाद्यस्तीत्यकिञ्चनो - निष्परिग्रहः, तथाभूतम् 'अरतिः' उक्तरूपा 'अनुप्रविशेत्' मनसि लब्धास्पदा भवेत्, 'त' मित्यरतिस्वरूपं 'तितिक्षेत' सहेत परीषहमिति सूत्रार्थः ॥ १४ ॥ तत्सहनोपायमेवाह -
अरई पिओ किच्चा, विरओ आयरक्खिए । धम्मारामे निरारंभे, उवसंते मुणी चरे ॥ १५ ॥ (सूत्रम्) | व्याख्या – 'अरतिं' संयमविषयां मोहनीय कर्म्मप्रकृतिरूपाँ पृष्ठतः । कृत्वा कोऽर्थः ? - धर्मविघ्नहेतुरियमितिमत्या तिरस्कृत्य किमित्याह - 'विरतः ' हिंसादिभ्य उपरतः, आत्मा रक्षितः दुर्गतिहेतोरपध्यानादेरनेनेत्यात्मरक्षितः, | आहिताश्यादिषु दर्शनात् क्तान्तस्य परनिपातः, आयो वा - ज्ञानादिलाभो रक्षितोऽनेनेत्यायरक्षितः, धम्र्मे - श्रुतध|र्मादी आङित्यभिव्यात्या रमते - रतिमान् भवतीति धर्मारामः, यद्वा-धर्म एव सततमानन्दहेतुतया प्रतिपाल्यतया
Jain Educationtional
For Private & Personal Use Only
ainelibrary.org