SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ पकारित्वनिश्चयः, अथ परेषां कषायकारणत्वेन चारित्रबाधकत्वं चीवरस्य, तर्हि धर्मादयोऽपि कस्यचित् कषायकारणं न वा ?, न तावन्न, तेऽपि कस्यचित्कषायहेतव इति चीवरवत्तेऽपि हातव्याः, आह च - "अत्थि य किं किंचिजए जस्स व कस्स व कसायवीजं तं । वत्युं ण होज ? एवं धम्मोऽवि तुमे ण घेतो ॥ १ ॥ जेण कसायणिमित्तं जि| णोऽवि गोसालसंगमाईणं । धम्मो धम्मपरावि य पडिणीयाणं जिणमयं च ॥ २ ॥” अथैषां मुक्त्यङ्गतया कषायहेतुत्वेऽपि न हेयता, तदिहापि समानम् उक्तं च वाचकसिद्धसेनेन - "मोक्षाय धर्मसिद्धयर्थ, शरीरं धार्यते यथा । शरीरधारणार्थं च, भैक्षग्रहणमिष्यते ॥ १ ॥ तथैवोपग्रहार्थाय पात्रं चीवरमिष्यते । जिनैरुपग्रहः साधोरिष्यते न | परिग्रहः ॥ २ ॥ " इत्यादि । औदासीन्येनापि न चीवरस्य चारित्रं प्रत्यनिमित्तता, तस्य तदुपकारित्वात् यच्च यत्रोपकारि न तत्तस्मिन्नुदासीनं यथा तन्त्वादयः पटे, चारित्रोपकारि च चीवरं, तथाहि - संयमात्मकं चारित्रं, न च तस्य तत्परिहारेण शुद्धिरस्ति, आगमश्च - "किं समोवयारं करेइ वत्थाइ जइ मई सुणसु । सीयत्ताणं ताणं जलणतणग 1 १ अस्ति च किं किञ्चित् जगति यस्य वा कस्य वा कषायबीजं तत् । वस्तु न भवेत् ? एवं धर्मोऽपि त्वया न ग्रहीतव्यः ॥ १ ॥ येन कषायनिमित्तं जिनोऽपि गोशालसंगमकादीनाम् । धर्मो धर्मपरा अपिच प्रत्यनीकानां जिनमतं च ||२|| २ किं संयमोपकारं करोति वस्त्रादि यदि मतिः शृणु । शीतत्राणं त्राणं ज्वलनतृणगतानां सत्त्वानाम् ॥ १॥ तथा निशि चतुष्कालं स्वाध्यायध्यानसाधनमृषीणाम् । हिममहिकावर्षाऽवश्यायरजआदिरक्षानिमित्तं तु ॥ २ ॥ Jain Educationational For Private & Personal Use Only jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy