________________
परीपहा. ध्ययनम्
उत्तराध्य. वृथैव "मणपरमोहिपुलाए आहारग खवग उवसमे कप्पे।संजमतिय केवलि सिज्झणा य जंबुम्मि वोच्छिन्ना ॥१॥"
इत्याप्तवचनानाश्रयणं, यदि तु रथ्यापुरुषाणामपीति कल्प्यते, तिरश्चामपि तत्कल्पनाऽस्तु, अथ देशविरतिभाज एव बृहद्धृत्तिः
त इति न तेषां तत्प्रतिपत्तिः, तर्हि सर्वविरतिस्तत्कारणं, तथा च तद्वता एकेन यत्कृतं तत्किमखिलैरपि तद्वद्भिराच॥९५॥ रणीयमथ तथाविधशक्तियुक्तैरेव ?, यद्याद्यो विकल्पस्तदैकस्मिन् मासषण्मासादिकं तपश्चरत्यन्यैरपि तच्चरणीयं स्याद,
अथ द्वितीयः पक्षस्तर्हि जिनकल्पोऽपि तथाविधशक्तियुक्तरेव प्रतिपत्तव्यः, अथ तथाविधशक्तिविकलानां तत्तपश्च४ारतां बहुतरदोषसम्भव इति न तच्चरणं, तदिहापि तुल्यं, तथाहि-सम्भवत्येवेदानीन्तनयतीनां तथाविधशक्तिसंहहैननविकलतया हिमकणानुषक्तशीतादिषु बहुतरदोषहेतुकमग्यारम्भादिकं तथा तथाविधाच्छादनाभावतः शीतादि
खेदितानां शुभध्यानाभावेन सम्यक्त्वादिविचलनम् , उक्तं च वाचकैः-"शीतवातातपैदशैर्मशकैश्चापि खेदितः।मा सम्यक्त्वादिषु ध्यानं, न सम्यक संविधास्यति ॥१॥" यच 'जिताचेलपरीषहो मुनि' रिति वचनतो न चीवरं धमोपकारीति, तत्र जिताचेलपरीषहत्वं चेलाभावेनैवाहोश्चिदेषणाशुद्धतत्परिभोगेनापि ?, यदि चेलाभावेनैव, ततः क्षुत्परीषहजयनमप्याहाराभावेनैवेति व्रतग्रहणकाल एवानशनमायातम् , एतच भवतोऽपि नाभिमतं, ततः परिशुद्धोपभोगितया जिताचेलपरीषहत्वमिति द्वितीय एव पक्षः, स चास्मत्पथवयैवेति न कुतोऽपि चीवरस्य धर्मानु१ मनः (पर्यायः) परमावधिः पुलाक आहारकः क्षपक उपशमकः (जिन) कल्पः। संयमत्रिकं केवलित्वं सिद्धिश्च जम्बौ व्युच्छिन्नाः॥१॥
Jain Education International
For Privale & Personal use only
SOHainelibrary.org