SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ते परोपदेशतः प्रवर्त्तन्ते यथा च छद्मस्थावस्थायां परोपदेशं दीक्षां वा न प्रयच्छन्ति, तथाऽन्यैरपि विधेयमिति मूल च्छेद एव तीर्थस्य, उक्तं च-"न परोवएसविसया ण य छउमत्था परोवएसपि । देंति न य सिस्सवग्गं दिक्खंति जिराणा जहा सबे ॥१॥ तह सेसेहि य सव्वं कजं जइ तेहिँ सवसाहम्मं । एवं च कओ तित्थं ? ण चेदचेलत्ति को गाहो?, ॥२॥" अथ जिनकल्पाकर्णनात् , तत्र हि न किञ्चिदुपकरणमिति चीवरस्याप्यभावः, तथा च न तस्य धदोपकारिता, ननु जिनकल्पिकानामुपकरणाभावः प्रवादतः आगमतो वा ?, न तावदाद्यपक्षो, न हि वसति किलात्र वटवृक्षे रक्ष इत्यादिनिर्मूलप्रवादानां प्रमाणता, नाप्यागमतः, तेषामपि तत्र शक्त्यपेक्षयोपकरणप्रतिपादनात् , तदुक्तम्-"जिणकप्पियादओ पुण सोवहओ सवकालमेगंतो। उवगरणमाणमेसिं पुरिसावेक्खाएँ बहुभेयं ॥१॥" अथवा अस्तु जिनकल्पिकानामुपकरणाभावः, तथापि धृतिशक्तिसंहननश्रुतातिशययुक्तानामेव तातिपत्तिः अथ रथ्यापुरुपाणामपि ?, यद्याद्यो विकल्पस्तत्किमेवंविधाः सम्प्रत्यपि सन्ति न वा ?, सन्ति चेदुपलब्धिलक्षणप्राप्ता उपलभ्येरन् , अनुपलब्धिलक्षणप्राप्ताश्च कुतः सत्त्वेन निश्चीयन्ते ?, अथ न सन्ति, तादृशामेव जिनकल्पप्रतिपत्तिः, तहिं| __ १ न परोपदेशविषया न च छद्मस्थाः परोपदेशमपि । ददति न च शिष्यवर्ग दीक्षयन्ति जिना यथा सर्वे ॥१॥ तथा शेषैरपि सर्व कार्य यदि तैः सर्वसाधर्म्यम् । एवं च कुतस्तीर्थ ? न चेदचेला इति 'क आग्रहः ॥१॥ २ जिनकल्पिकादयः पुनः सोपधयः सर्वकालमेकान्तः । उपकरणमानमेतेषां पुरुषापेक्षया बहुभेदम् ॥ १॥ Jain Educatio n For Private & Personal use only ibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy