________________
उत्तराध्य.
बृहद्वृत्तिः
॥ ९४ ॥
उक्तं च- " जंपि वत्थं व पायं वा, कंबलं पायपुंछणं । तंपि संजमलज्जट्ठा, धरंति परिहरंति य ॥ ११ ॥ ” । अथ संस|क्तिविषयतया, यद्येवमाहारेऽपि सा किमस्ति नास्ति वा ?, न तावन्नास्ति, कृमिकण्डूपदाद्युत्पातस्य तत्र प्रतिप्राणि प्रतीतत्वात्, अथास्ति परं यतनया न दोषः, तदितरत्रापि तुल्यं । कषायकारणत्वेन चेत्, तत्किमात्मनः परेषां वा ?, यद्यात्मनस्तदा श्रुतमपि केषाञ्चिदहङ्कारहेतुत्वेन कषायकारणमिति तदपि नोपादेयं स्यात्, अथ विवेकिनां न तदहङ्कृतिहेतुः, "प्रथमं ज्ञानं ततो दये"ति नीतितो धर्मोपकारि चेति तदुपादानं, चीवरेऽपि समानमेतत् : अथ चीवरस्य धर्मानुपकारित्वादतुल्यता, ननु कुत एतदवसितं किमचीवरास्तीर्थकृत इति श्रुतेरुत जिनकल्पाकर्ण - नातू 'जिताचेलपरीषहो मुनि' रिति वचनतो वा ?, न तावदाद्यो विकल्पः, सूत्रे हि तीर्थकृतामचीवरत्वं कदाचि - त्सर्वदा वा ?, कदाचिचेत्को वा किमाह ?, कदाचिदस्माकमप्यस्याभिमतत्वात्, अथ सर्वदा, तन्न, 'सच्चेऽवि एगदूसेण निग्गया जिणवरा उ चउवीस' मिति वचनात्, अथ तत्र ' एगदोसेणं' तिपाठः, सर्वेऽपि संसारदोषेण एकेन निर्गता इतिकृत्वा, नन्वेवमनवस्था, सर्वत्र सर्वैरपि खेच्छारचितपाठानां सुकरत्वात् किं च-तीर्थकृतामचीवरत्वे तेषामेव तद्धर्मोपकारीति निश्चयोऽस्तु, नापरेषां न हि यदेव तेषां धर्मोपकारि तदेवेतरेषामपि, अन्यथा यथा न १ यदपि वस्त्रं वा पात्रं वा, कम्बलं पादप्रोञ्छनम् । तदपि संयमलज्जार्थ, धारयन्ति परिभुञ्जन्ति च ॥१॥ २ सर्वेऽप्येकदूष्येण निर्गता जिनवरास्तु चतुर्विंशतिः ।
Jain Education International
For Private & Personal Use Only
परीषहा
ध्ययनम्
R
॥ ९४ ॥
ainelibrary.org