________________
Jain Education 5
च विशेषतस्तद्धेतुत्वाद्, उक्तं च - " अह कुणसि थुलवत्थाइएस मुच्छं धुवं सरीरेऽवि । अक्केजदुल्लभतरे काहिसि मुच्छं | विसेसेण ॥ १ ॥” अथास्तु तन्निमित्तमेतत् तर्हि चीवरवत्तस्यापि किं दुस्त्यजत्वेन मुक्त्यङ्गतया वा न प्रथमत एव | परिहारः १, दुस्त्यजत्वेन चेत् तदपि किमशेषपुरुषाणामुत केषाञ्चिदेव ?, न तावदशेषपुरुषाणां, दृश्यन्ते हि बहवो वह्निप्रवेशादिभिः शरीरं परित्यजन्तः, अथ केषाञ्चित्, तदा वस्त्रमपि केषाञ्चित् दुस्त्यजमिति तदपि न परिहार्य, मुक्त्यङ्गतापक्षाश्रयणे च किं चीवरेणापराद्धम् ?, तस्यापि तथाविधशक्तिविकलानां शीतकालादिषु स्वाध्यायाद्यु - | |पष्टम्भकत्वेन मुक्त्यङ्गत्वाद्, अभ्युपगम्य च मूर्च्छाहेतुत्वमुच्यते न हि निगृहीतात्मनां क्वचिन्मूर्च्छाऽस्ति, तदुक्तम् - " सत्थुवहिणा बुद्धा, संरक्खणपरिग्गहे । अवि अप्पणोऽवि देहम्मि, णायरंति ममाइउं (यं ) ॥ १ ॥” ति, नापि धारणादिमात्रेण, एवं हि शीतकालादौ प्रतिमाप्रतिपत्त्यादिषु केनचिद्भक्त्यादिनोपरि क्षिप्तस्यापि चीवरस्य परिग्रहताप्रसङ्गः, अथ तत्र खयंग्रहाभावाददोषः तर्हि स्वयंग्रहः परिग्रहत्वे हेतुः तथा च कुण्डिकाद्यपि नोपादेयं, दृष्टेष्टविरोधि चेदम्, अथ तत्र मूर्च्छाया अभावादपरिग्रहत्वम्, एवं सति संयमरक्षणायोपादीयमाने चीवरे तदभावात्तदस्तु,
१ अथ करोषि स्थूलवस्त्रादिषु मूर्च्छा ध्रुवं शरीरेऽपि । अक्रेयदुर्लभतरे करिष्यसि मूर्च्छा विशेषेण ॥ १ ॥ २ मूर्च्छाहेतुः शरीरं ३ सर्वत्रोपधिना बुद्धाः, संरक्षणपरिग्रहे । अपिचात्मनोऽपि देहे नाचरन्ति ममायितुम् (तम् ) ॥ १ ॥
For Private & Personal Use Only
nelibrary.org