________________
SHRS
RELEASE
कादिषु-शृगालवृकरूपैश्च, नदद्भिोरनिष्ठुरम् । आक्षेपत्रोटितस्नायु, भक्ष्यन्ते रुधिरोक्षिताः ॥१॥ खरूपैः श्यामशबलैलपुच्छर्भयान्वितैः । परस्परं विरुध्यद्भिविलुप्यन्ते दिशोदिशम् ॥२॥ काकगृध्रादिरूपैश्च, लोहतुण्डैर्बलान्वितैः। विनिकृष्टाक्षिजिह्वात्रा, विचेष्टन्ते महीतले ॥३॥ प्राणोपक्रमणेोरैर्दुःखैरेवंविधैरपि । आयुष्यक्षपिते नैव, नियन्ते दुःखभागिनः॥४॥ इत्यादि, तथा असंज्ञिन एते आहारार्थिनश्च भोज्यमेतेषां मच्छरीरं बहुसाधारणं च यदि
भक्षयन्ति किमत्र प्रद्वेषेणेति च विचिन्तयन् तदपेक्षणपरो न तदुपघातं विदध्यादिति सूत्रार्थः॥ ११॥ इदानीं पदथिद्वारं, तत्र 'स्पृष्टो दंशमशकै रित्यादिसूत्रसूचितमुदाहरणमाह|चंपाए सुमणुभद्दो जुवराया धम्मघोससीसो य । पंथंमि मसगपरिपीयसोणिओ सोऽवि कालगओ ॥९॥
व्याख्या-चम्पायां सुमनोभद्रो युवराजो धर्मघोषशिष्यश्च पथि मशकपरिपीतशोणितः सोऽपि कालगत इति गाथाक्षरार्थः ॥ ९३ ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्
चंपाए नयरीए जियसत्तुस्स रण्णो पुत्तो सुमणभहो जुवराया, धम्मघोसस्स अन्तिए धम्म सोऊण निविण्णकासमभोगोपचइतो, ताहे चेव एगल्लविहारपडिम पडिवन्नो, पच्छा हेटाभूमीए विहरन्तो सरयकाले अडवीए पडिमागतो
१ चम्पायां नगर्या जितशत्रो राज्ञः पुत्रः सुमनोभद्रो युवराजः, धर्मघोषस्यान्तिके धर्म श्रुत्वा निर्विष्णकामभोगः प्रब्रजितः, तदैव एकाकि|विहारप्रतिमां प्रतिपन्नः, पश्चादधोभूमौ विहरन् शरत्कालेऽटव्यां प्रतिमागतः
*SAHASRAA5*
Jain Educatill
a tional
For Privale & Personal use only
DRjainelibrary.org