________________
उत्तराध्य.
परीषहाध्ययनम्
बृहद्वृत्तिः ॥९२॥
SUSARASSA AS98
रित्तिं मसएहिं खजइ, सो ते ण पमजइ, सम्म सहइ, रत्तीए पीयसोणितो कालगतो । एवं अहियासेयव्वं ॥ इत्यवसितो दंशमशकपरीषहः॥ अधुना अचेलः संस्तैस्तुद्यमानो वस्त्रकम्बलाद्यन्वेषणपरोन स्यादित्यचेलपरीषहमाह
परिजुन्नेहि वत्थेहि, होक्खामित्ति अचेलए।अदुवा सचेलए होक्खं, इइ भिक्खु न चिंतए॥१२॥(सूत्रम् ) | व्याख्या-'परिजीर्णैः समन्तात् हानिमुपगतैः 'वस्त्रैः' शाटकादिभिः 'होक्खामित्ति' इतिर्भिन्नक्रमः ततो भ-| विष्यामि 'अचेलकः' चेलविकलः अल्पदिनभावित्वादेषामिति भिक्षुर्न विचिन्तयेत् , अथवा 'सचेलकः'चेलान्वितो भविष्यामि, परिजीर्णवस्त्रं हि मां दृष्ट्वा कश्चित् श्राद्धः सुन्दरतराणि वस्त्राणि दास्यतीति भिक्षुर्न चिन्तयेत् , इदमुक्तं भवति-जीर्णवस्त्रः सन्न मम प्राक्परिगृहीतमपरं वस्त्रमस्ति न च तथाविधो दातेति न दैन्यं गच्छेत् , न चान्यलाभसम्भा-2 वनया प्रमुदितमानसो भवेदिति सूत्रार्थः॥१२॥ इत्थं जीर्णादिवस्त्रतया अचेलं स्थविरकल्पिकमाश्रित्याचेलपरीषह उक्तः, सम्प्रति तमेव सामान्येनाह--
एगया अचेलए होइ, सचेले यावि एगया। एयं धम्महियं णच्चा, नाणी णो परिदेवए॥१३॥(सूत्रम्) _ व्याख्या-'एकदा' एकस्मिन् काले जिनकल्पप्रतिपत्तौ स्थविरकल्पेऽपि दुर्लभवस्त्रादौ वा सर्वथा चेलाभावेन स
१ रात्रौ मशकै; खाद्यते, स तान् न प्रमार्जयति, सम्यक् सहते, रात्रौ पीतशोणितः कालगतः। एवमध्यासितव्यम् ।
Jain Education International
For Privale & Personal use only
www.jainelibrary:org