________________
उत्तराध्य.
बृहद्वृत्तिः
॥ ८६ ॥
पलक्षणमेतत्, ततः स्वकीयादिशस्त्रानुपहतम्, अप्रासुकमित्यर्थः, तच तदुदकं च शीतोदकं, 'न सेवेत' न पानादिना भजेत, किन्तु 'वियडस्स' त्ति विकृतस्य- वहयादिना विकारं प्रापितस्य प्रासुकस्येतियावत्, प्रक्रमादुदकस्य 'एसणं' ति चतुर्थ्यर्थे द्वितीया, ततश्चैषणाय - गवेषणार्थ 'चरेत्, तथाविधकुलेषु पर्यटेत्, अथवा एषणाम् - एषणासमितिं चरेत्, चरतेरासेवायामपि दर्शनात् पुनः पुनः सेवेत, किमुक्तं भवति ? - एकवारमेषणाया अशुद्धावपि न पिपासातिरेकतोऽनेपणीयमपि गृह्णस्ता मुल्लङ्घयेदिति सूत्रार्थः ॥ ४ ॥ कदाचिजनाकुल एव निकेतनादौ लज्जातः स्वस्थ एव चैवं | विदधीतेत्यत आह
छिन्नावासु पंथेसुं, आउरे सुपिवासिए । परिसुक्कमुहे दीणे, तं तितिक्खे परीसह ॥५॥ (सूत्रम्) व्याख्या - छिन्नः - अपगतः आपातः - अन्यतोऽन्यत आगमनात्मकः अर्थाज्जनस्य येषु ते छिन्नापाताः, विविक्ता इत्यर्थः, तेषु, 'पथिषु' मार्गेषु, गच्छन्निति गम्यते, कीदृशः सन्नित्याह- 'आतुरः' अत्यन्ताकुलतनुः किमिति ?, यतः सुष्ठु - अतिशयेन पिपासितः - तृषितः सुपिपासितः, अत एव च परिशुष्कं विगतनिष्ठीवनतयाऽनार्द्रतामुपगतं मुख|मस्येति परिशुष्कमुखः स चासौ अदीनश्च - दैन्याभावेन परिशुष्कमुखादीनः 'त' मिति तृपरीपहं 'तितिक्षेत' सहेत पठ्यते च - 'सङ्घतोय परिवएत्ति' सर्वत इति सर्वान् मनोयोगादीनाश्रित्य चः पूरणे 'परिव्रजेत्' सर्वप्रकारसंयमाध्वनि यायात् उभयत्रायमर्थो - विविक्तदेशस्थोऽप्यत्यन्तं पिपासितोऽस्वास्थ्यमुपगतोऽपि च नोक्तविधि -
Jain Education national
1
For Private & Personal Use Only
परीषहाध्ययनम्
२
॥ ८६ ॥
Wwlainelibrary.org