SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥८४॥ NAGARCARRORSCRek इति मात्राज्ञो-नातिलौल्यतोऽतिमात्रोपयोगी, कस्येत्याह-अश्यत इत्यशनम्-ओदनादि पीयत इति पानं-सौवीरा-द परीषहादि अनयोः समाहारेऽशनपानं तस्य, तथा 'अदीणमणसो' ति सूत्रत्वाददीनमनाः अदीनमानसो वा-अनाकुलचित्तः | ध्ययनम् 'चरेत्' संयमाध्वनि यायात् , किमुक्तं भवति ?-अतिबाधितोऽपि क्षुधा नवकोटीशुद्धमप्याहारमवाप्य न लौल्यतोऽतिमात्रोपयोगी तदप्राप्तौ वा दैन्यवान् इत्येवं क्षुत्परिषह्यमाणा क्षुत्परीषहः सोढो भवतीति सूत्रार्थः ॥ सम्प्रति प्रागद्वारगाथोपक्षिप्तं सूत्रस्पर्श इति त्रयोदशद्वारं व्याचिख्यासुः सूत्रस्पर्शिकनियुक्तिमाह'सुत्तफासे यत्ति । तथाकुमारए नई लेणे, सिला पंथे महल्लए । तावस पडिमा सीसे, अगणि निवेअ मुग्गरे ॥ ८७॥ वणे रामे पुरे भिक्खे, संथारे मल्लधारणं । अंगविज्जा सुए भोमे, सीसस्सागमणे इय ॥ ८८॥ व्याख्या-तत्र सूत्रस्पर्शश्चेति द्वारोपक्षेपः, कुमार इत्यादिना च तद्वर्णनं स्पष्टमेव, नवरं कुमारकादिभिः प्रत्येकं ४ द्वाविंशतेरपि परीपहाणामुदाहरणोपदर्शनं, तथाहि-'कुमारकः' क्षुलुकः, 'लेणं ति लयनं गुहा 'महल्लए'त्ति आर्यर-5 क्षितपिता, सूत्रस्पर्शित्वं चास्य सूत्रसूचितोदाहरणप्रदर्शकत्वादिति किश्चिदधिकगाथाद्वयार्थः ॥ ८७-८८ ॥ इदानीं, नियुक्तिकार एव 'न छिन्दे'इत्यादिसूत्रावयवसूचितं कुमारकेत्यादिद्वारोपक्षिप्तं च क्षुत्परीषहोदाहरणमाह Jain Education International For Privale & Personal use only wowir.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy