SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ तृतीया, पाठान्तरं 'दिगिंछापरिगते' बुभुक्षाव्याप्ते 'देहे' शरीरे सति, तपोऽस्यास्तीति अतिशायने विनिस्तपखीविकृष्टाष्टमादितपोऽनुष्ठानवान् , स च गृहस्थादिरपि स्यादत आह-'भिक्षुः' यतिः, सोऽपि कीदृक्-स्थाम-बलं तदस्य संयमविषयमस्तीति स्थामवान् ,भूम्नि प्रशंसायांवा मतुपप्रत्ययः, अयं च किमित्याह-न छिन्द्यात्'न द्विधा विदध्यात्, खयमिति गम्यते, न छेदयेद्वा अन्यैः, फलादिकमिति शेषः, तथा न पचेत् स्वयं, न चान्यैः पाचयेत् , उपलक्षणत्वाच नान्यं छिन्दन्तं वा पचन्तं वाऽनुमन्येत, तत एव च न खयं क्रीणीयात् नापि क्रापयेत् न च परं क्रीणन्तमनुमन्येत, छेदस्य हननोपलक्षणत्वात् क्षुत्प्रपीडितोऽपि न नवकोटीशुद्धिवाधां विधत्ते इति गाथार्थः॥२॥ | कालीपवंगसंकासे, किसे धमणिसंतए । मत्तन्नोऽसणाणस्स, अदीणमणसो चरे ॥३॥ (सूत्रम्) ___ व्याख्या-काली-काकजा तस्याः पर्वाणि स्थराणि मध्यानि च तनूनि भवन्ति ततः कालीपर्वाणीव पर्वाणिजानुकूपरादीनि येषु तानि कालीपर्वाणि, उष्टमुखीवन्मध्यपदलोपी समासः, तथाविधैरङ्गैः-शरीरावयवैः सम्यक्काशते-तपःश्रिया दीप्यत इति कालीपर्वाङ्गसङ्काशः, यद्वा प्राकृते पूर्वापरनिपातस्यातन्त्रत्वाद्धामो दग्ध इत्यादिवत् अवयवधर्मेणाप्यवयविनि व्यपदेशदर्शनाचासन्धीनामपि कालीपर्वसदृशतायां कालीभिः सङ्काशानि-सदृशान्यङ्गानि यस्य स तथा, स हि विकृष्टतपोऽनुष्ठानतोऽपचितपिशितशोणित इत्यस्थिचर्मावशेष एवंविध एव भवति, अत एव च 'कृशः', कृशशरीरः, धमनयः-शिरास्ताभिः सन्ततो-व्याप्तो धमनिसंततः, एवंविधावस्थोऽपि मात्रां-परिमाणरूपां जानाति Jain Educati ! For Privale & Personal use only Relainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy