________________
तु यथाकथञ्चिद् ,गुरुविनयभीत्या गुरुपर्षदुत्थितेभ्यो वा सकाशात् , यथोच्यते-"परिसुट्टियाण पासे सुणेइ सो विणयपरिभंसि"त्ति, यदुक्तं 'भगवता आख्यातं द्वाविंशतिः परीषहाः' सन्तीति, तत्र किं भगवता अन्यतः पुरुषविशेषादपौरुषेयागमात् खतो वा अमी अवगता इत्याह-श्रमणेन भगवता महावीरेण काश्यपेन 'पवेइय'त्ति सूत्रत्वात् प्रविदिताः, तत्र श्राम्यतीति श्रमणः-तपखी तेन, न तु 'ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः। ऐश्वर्य चैव धर्मश्च, सहसिद्धं चतुष्टयम् ॥१॥' इतिकणादादिपरिकल्पितसदाशिववदनादिसंसिद्धेन, तस्य देहादिविरहात् तथाविधप्रयत्नाभावेनाऽऽख्यानायोगाद्, उक्तंच-"वयेणं न कायजोगाभावेण य सोअणादिसुद्धस्स । गहणम्मि य नो हेतू सत्थं
अत्तागमो कह णु ॥१॥" 'भगवते ति च समग्रज्ञानेश्वर्यादिसूचकेन सर्वज्ञतागुणयोगित्वमाह, तथा च यत् कैश्चिदुच्यदाते-'हेयोपादेयतत्त्वस्य, साध्योपायस्य वेदकः । यः प्रमाणमसाविष्टो, न तु सर्वस्य वेदकः॥१॥' इति, तयुदस्तं भवति,
असर्वज्ञो हि न यथावत्सोपायहेयोपादेयतत्त्वविद्भवति, प्रतिप्राणि भिन्ना हि भावानामुपयोगशक्तयः, तत्र कोऽपि कस्यापि कथमपि क्वाप्युपयोगीति कथं सोपायहेयोपादेयतत्त्ववेदनं सर्वज्ञतां विना सम्भवतीति, 'महावीरणे' ति शक्रकृ
तनाम्ना चरमतीर्थकरण, 'काश्यपेन' काश्यपगोत्रेण, अनेन च नियतदेशकाल कुलाभिधायिना सकलदेशकालकलाPा १ पर्षदुत्थितानां पार्थे शृणोति स विनयपरिभ्रंशी ।२ वचनं न काययोगाभावे न च सोऽनादिशुद्धस्य । ग्रहणे न च हेतुः शास्त्रमात्मागमः
कथं नु ? ॥१॥
Jain Education
ational
For Privale & Personal use only
wilejainelibrary.org