SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. ॥ ८० ॥ | राएण विज्जा मन्ता य सिज्यंति” अथवा - 'आउसंतेणं' ति भगवद्विशेषणम्, आयुष्मता भगवता, चीरजीविनेत्यर्थो, | मङ्गलवचनमेतत्, यद्वा- 'आयुष्मते 'ति परार्थप्रवृत्त्यादिना प्रशस्तमायुर्धारयता, न तु मुक्तिमवाप्यापि तीर्थनिकारादिबृहद्वृत्तिः ? दर्शनात्पुनरिहायातेन, यथोच्यते कैश्चित् -"ज्ञानिनो धर्मतीर्थस्य, कर्त्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥ १ ॥” एवं हि अनुन्मूलितनिः शेषरागादिदोषत्वात्तद्वचसोऽप्रामाण्यमेव स्यात्, निःशेषोन्मूलने हि रागादीनां कुतः पुनरिहागमनसम्भव इति । यदिवा - 'आवसंतेणं' ति मयेत्यस्य विशेषणं, तत आङिति गुरुदर्शितमर्यादया वसता, अनेन तत्त्वतो गुरुमर्यादावर्त्तित्वरूपत्वाद्गुरुकुलवासस्य तद्विधानमर्थत उक्तं, ज्ञानादिहेतुत्वात्तस्य, उक्तं च - " णाणस्स होइ भागी थिरयरतो दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुंचति ॥ १ ॥ " अथवा 'आमुसंतेण' आमृशता भगवत्पादारविन्दं भक्तितः करतलयुगादिना स्पृशता, अनेनैतदाह-अधिगतसमस्तशास्त्रेणापि गुरुविश्रामणादिविनयकृत्यं न मोक्तव्यम्, उक्तं हि - "जहांहिअग्गी जलणं नमसे, णाणाहुईमंतपयाहिसित्तं । एवायरियं उवचिट्ठएजा, अनंतणाणोवगतोऽवि संतो ॥ १ ॥ "त्ति, यद्वा - 'आउसंतेणं' ति प्राकृतत्वेन तिव्यत्ययादाजु| पमाणेन - श्रवणविधिमर्यादया गुरून् सेवमानेन, अनेनाप्येतदाह - विधिनैवोचितदेशस्थेन गुरुसकाशात् श्रोतव्यं, न १ ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथिकं गुरुकुलवासं न मुञ्चन्ति ॥ १ ॥। २ यथाऽऽहिताग्निर्ज्वलनं | नमस्यति नानाहुतिमन्त्रपदाभिषिक्तम् । एवमाचार्यमुपतिष्ठेतानन्तज्ञानोपगतोऽपि सन् ॥ १ ॥ Jain Education International For Private & Personal Use Only परीषहाध्ययनम् २ ॥ ८० ॥ www.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy