________________
व्याख्या-श्रुतम् आकर्णितमवधारितमितियावत् 'मे' मया 'आयुष्मन्निति शिष्यामन्त्रणं, कः कमेवमाह ?, सुधर्मखामी जम्बूखामिनं, किं तत् श्रुतमित्याह-'तेने ति त्रिजगत्प्रतीतेन 'भगवता' अष्टमहाप्रातिहार्यरूपसमग्रैश्वर्यादियुक्तेन, 'एव'मित्यमुना वक्ष्यमाणन्यायेन 'आख्यातं सकलजन्तुभाषाभिव्याप्त्या कथितम् , ) उक्तं च-"देवा
देवी नरा नारी, शबराश्चापि शाबरीम् । तिर्यञ्चोऽपि हि तैरवीं, मेनिरे भगवद्गिरम् ॥१॥" किमत आह–'इहे'|ति लोके प्रवचने वा 'खलुः' वाक्यालङ्कारे अवधारणे वा, तत इहैव-जिनप्रवचन एव द्वाविंशतिः परीषहाः, सन्तीति गम्यते, अत्र च श्रुतमित्यनेनावधारणाभिधायिना खयमवधारितमेव अन्यस्मै प्रतिपादनीयमित्याह, अन्यथाऽभिधाने ?
प्रत्युतापायसम्भवात् , उक्तं च-"किं एत्तोपावयरं सम्म अणहिगयधम्मसम्भावो। अन्नं कुदेसणाए कठुतरायंमि पाडेइ ६॥१॥"त्ति, 'मये'त्यनेनार्थतोऽनन्तरागमत्वमाह, भगवते'त्यनेन च वक्तुः केवलज्ञानादिगुणवत्त्वसूचकेन प्रकृतवचसः
प्रामाण्यं ख्यापयितुं वक्तुः प्रामाण्यमाह, वक्तृप्रामाण्यमेव हि वचनप्रामाण्ये निमित्तं, यदुक्तम्-"पुरुषप्रामाण्यमेव । शब्दे दर्पणसङ्क्रान्तं मुखमिवापचारादभिधीयते” 'तेनेति च गुणवत्त्वप्रसिध्ध्यभिधानेन प्रस्तुताध्ययनस्य प्रामाण्यनिश्चयमाह, संदिग्धे हि वक्तुर्गुणवत्त्वे वचसोऽपि प्रामाण्ये संदिह्यतेति, समुदायेन तु आत्मौद्धत्यपरिहारेण गुरुगुण-४ प्रभावनापरैरेव विनेयेभ्यो देशना विधेया, एतद्भक्तिपरिणामे च विद्यादेरपि फलसिद्धिः, यदुक्तम्-"आयरियभत्ति
१ किमेतस्मात्पापकरं ? सम्यगनधिगतधर्मसद्भावः । अन्यं कुदेशनया कष्टतरागसि पातयति ॥१॥२ आचार्यभक्तिरागेण विद्या मित्राश्च सिध्यन्ति
For Private & Personal use only