________________
उत्तराध्य.
बृहद्वृत्तिः
॥ ७९ ॥
वादोद्धृतत्वादस्य न दोषः, तथा च प्रागुक्तम्- 'कम्मप्पवायपुत्रे' त्यादि, दृष्टिवादे हि नयैर्व्याख्येत्यत्रापि तथैवाभिधानमिति गाथार्थः ॥ ८५ ॥ इदानीमुद्देशादिद्वारत्रयमल्पवक्तव्यमित्येकगाथया गदितुमाह
उद्देसो गुरुवयणं पुच्छा सीसस्स उ मुणेयवा । निद्देसो पुणिमे खलु बावीसं सुत्तफासे य ॥ ८६ ॥
व्याख्या - उद्दिश्यत इति उद्देशः, क इत्याह- 'गुरुवचनं' गुरोः विवक्षितार्थसामान्याभिधायकं बचो, यथा प्रस्तुतमेव 'इह खलु वावी परीसह 'त्ति 'पृच्छा शिष्यस्य तु' गुरूद्दिष्टार्थविशेषजिज्ञासोर्विनेयस्य, तुः पुनः प्रक्रमाद्वचनं 'मुणितव्या' ज्ञातव्या, यथा 'कयरे खलु ते बावीसं परीसहा ?' इति, निर्देशश्चेति निर्देश:- पुनः इमे खलु द्वाविंशतिः, परीपहा इति गम्यते, अनेन च शिष्यप्रश्नानन्तरं गुरोर्निर्वचनं निर्देश इत्यर्थादुक्तं भवति, अत्र चैवमुदाहरणद्वारेणाभिधानं पूर्वयोरप्युक्तोदाहरणद्वयसूचनार्थ वैचित्र्यख्यापनार्थं चेति किञ्चिन्यूनगाथार्थः ॥ ८६ ॥ इत्थं 'कुत' इत्यादिद्वादशद्वारवर्णनादवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति 'सूत्रस्पर्श' इति चरमद्वारस्य सूत्रालापकनिष्पन्ननिक्षेपस्य चावसरः, तच्चोभयं सूत्रे सति भवतीति सूत्रानुगमे सुत्रमुच्चारणीयं तच्चेदम्
'सुयं मे आउसंतेनं भगवया एवमक्खायं - इह खलु बावीसं परीसहा समणेण भगवया महावीरेण कासवेणं पवेइया जे भिक्खू सुच्चा नच्चा जिच्चा अभिभूय भिक्खायरियाए परिवयंतो पुट्ठो नो विनिहन्नेज्जा ।
Jain Educationtional
For Private & Personal Use Only
परीषहाध्ययनम्
२
॥ ७९ ॥
www.jainelibrary.org