________________
परीषहाध्ययनम्
उत्तराध्य. व्यापिपुरुषाद्वैतनिराकरणं कृतं भवति, तत्र हि सर्वस्यैकत्वादयमाख्याताऽस्मै व्याख्येयमित्यादिविभागाभावत बृहद्ध त्तिः
आख्यानस्यैवासम्भव इति, 'प्रविदिताः' प्रकर्षण-खयंसाक्षात्कारित्वलक्षणेन ज्ञाताः, अनेन बुद्धिव्यवहितार्थपरिच्छेदवादः परिक्षिप्तो भवति, स्वयमसाक्षात्कारी हि प्रदीपहस्तान्धपुरुषवद्वयतिरिक्तवुद्धियोगोऽपि कथं कञ्चनार्थ परिच्छेत्तुं क्षमः स्याद् ?, एवं चैतदुक्तं भवति-नान्यतः पुरुषविशेषादेतेऽवगताः, स्वयंसम्बुद्धत्वाद्भगवतः, नाप्यपौ-* रुषेयागमात् , तस्यैवासम्भवाद्, अपौरुषेयत्वं ह्यागमस्य वरूपापेक्षमर्थप्रत्यायनापेक्षं वा?, तत्र यदि वरूपापेक्षं तदा ताल्वादिकरणव्यापारं विनवास्य सदोपलम्भप्रसङ्गः, न चावृतत्वात् नोपलम्भ इति वाच्यं, तस्य सर्वथा नित्यत्वे आवरणस्याकिञ्चित्करत्वात् , किञ्चिकरत्वे वा कथञ्चिदनित्यत्वप्रसङ्गाद् , अथार्थप्रत्यायनापेक्षम् , एवं कृतसङ्केता बाला-4 दयोऽपि ततोऽर्थ प्रतिपद्येरन्निति नापौरुषेयागमसम्भव इति । ते च कीदृशा इत्याह-'यानिति परीपहान् 'भिक्षुः' उक्तनिरुक्तः, 'श्रुत्वा' आकर्ण्य, गुर्वन्तिक इति गम्यते, 'ज्ञात्वा' यथावदववुया, 'जित्वा' पुनः पुनरभ्यासेन परिचितान् कृत्वा 'अभिभूय' सर्वथा तत्सामर्थ्यमुपहत्य, भिक्षोश्चर्या-विहितक्रियासेवनं भिक्षुचर्या तया 'परिव्रजन् ।
समन्ताद्विहरन् 'स्पृष्टः' आश्लिष्टः, प्रक्रमात्परीषहैरेव, 'नो' नैव 'विनिहन्यत' विविधैः प्रकारैः संयमशरीरोपघातेन है विनाशं प्राप्नुयात् , पठन्ति च 'भिक्खायरियाए परिवयंतो'त्ति भिक्षाचर्यायां-भिक्षाटने परिव्रजन् , उदीयन्ते हि
Sain Educati
o
nal
For Privale & Personal use only
Mainelibrary.org