SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ AAAAAAAAGAR व्याख्या-एण्यत इत्येषणम्-एषणाशुद्धं, अनेषणीयं-तद्विपरीतं, सोपस्कारत्वाद्यदन्नादि तस्य, यद्वा 'सुपां सुपो भवन्तीति न्यायादेषणीयस्य अनेषणीयस्य च, 'अग्गहणऽभोयण'त्ति अग्रहणम्-अनुपादानं, कथञ्चिद् ग्रहणे वा अभोजनम्- अपरिभोगात्मकं त्रयाणाम्' अर्थान्नैगमसङ्ग्रहव्यवहाराणां नयानां मतेनाध्यासना बोद्धव्यति सम्बन्धः, अमी हि स्थूलदर्शिनः बुभुक्षादिसहनमन्नादिपरिहारात्मकमेवेच्छन्ति, 'फासुग सहजसुत्ताणं'ति शब्दनयानां त्रयाणामृजुसूत्रस्य च मतेन प्रासुकमन्नादि उपलक्षणत्वात् कल्प्यं च गृह्णतो भुनानस्याप्यध्यासनेति प्रक्रमः; ते हि भावप्रधानतया भावाध्यासनामेव मन्यन्ते, सा च नाभुानस्यैव, किन्तु शास्त्रानुसारिप्रवृत्त्या समतावस्थितस्य प्रासुकमेषणीयं च थै भुआनस्थापीति गाथार्थः ॥८०॥ सम्प्रति नयद्वारमाहजं पप्प नेगमनओ परीसहो वेयणा य दुण्हंतु।वेयण पडुच्च जीवे उज्जुसुओ सदस्स पुण आया ॥१॥ ___ व्याख्या-'यद्' वस्तु गिरिनिर्झरजलादि प्राप्य'आसाद्य क्षुदादिपरीषहा उत्पद्यन्ते नैगमो-नैगमनयो यत्तदोर्नित्या|भिसम्बन्धात् तत्परीषह इति वक्तीति शेषः, स ह्येवं मन्यते-यदि तत् क्षुदाद्युत्पादकं वस्तु न भवेत्तदा क्षुदादय एव न स्युः, तदभावाच किं केन सह्यत इति परीषहाभाव एव स्यात्, ततस्तद्भावभावित्वात् परीषहस्य तत् प्रधानमिति तदेव परीषहः, प्रस्थकोत्पादककाष्ठप्रस्थकवत्, आह-नैकगमत्वान्नैगमस्य कथमेकरूपतैव परीपहाणामिहोक्ता ?, उच्यते, शतशाखत्वादस्य न सर्वभेदाभिधानं शक्यमिति कश्चिदेव क्वचिदुच्यते, एवं शेषनयेष्वपि यथोक्ताशङ्कायां Jain Educatior itional For Private & Personal use only
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy