________________
उत्तराध्य.
बृहद्वृत्तिः
॥ ७७ ॥
वाच्यमिति । 'वेदना' क्षुदादिजनिता असातवेदना, चशब्दात्तदुत्पादकं च परीपहः, 'द्वयोस्तु' पारिशेष्यात् सङ्ग्रहव्यवहारयोः पुनर्मतेनेति गम्यते, अयं चानयोरभिप्रायः- यदि तावद्विरिनिर्झरजलादि क्षुदादिवेदनाजनकत्वेन परीषहः, कथमिव क्षुदादिवेदना न परीषहो, निरुपचरितं परीषद्यत इति परीपहलक्षणं, वेदनाया एव सम्भवति, उपचरितं तु गिरिनिर्झरजलादौ, तात्त्विक वस्तु निबन्धनश्चोपचार इति तदभावे तस्याप्यभाव एव स्यात्, 'वेदनां' क्षुदाद्यनुभवा|त्मिकां 'प्रतीत्य' आश्रित्य जीवे परीषह इति ऋजुसूत्रः मन्यत इतीहापि गम्यते, अयमस्याशयः - सति हि निरुपच | रितलक्षणान्वितेऽपि परीषहे स एव परषहोऽस्तु, किमुपचरितकल्पनया ?, ततो निरुपचरित लक्षणयोगाद्वेदनैव परीषहः, सा च जीवधर्मत्वाज्जीवे नाजीव इति वेदनां प्रतीत्य जीवे परीषह उच्यते, न तु पूर्वेषामिवाजीवेऽपीति, 'शब्दस्ये' ति शब्दाख्यनयस्य साम्प्रतसमभिरूढैवम्भूतभेदतस्त्रिरूपस्य मतेनात्मा - जीवः, परीषह इति प्रक्रमः, पुनः| शब्दो विशेषं द्योतयति, विशेषश्च परीषहोपयुक्तत्वम्, अयं ह्युपयोगप्रधानः, उपयोगश्चात्मन एवेति परीषहोपयुक्त आत्मैव परीपह इति मन्यते इति गाथार्थः ॥ ८१ ॥ इदानीं वर्त्तमाद्वारमाह
ai उक्कसप वति जहन्नओ हवइ एगो । सीउसिण चरियं निसीहिया य जुगवं न वर्हति ॥ ८२ ॥ व्याख्या - विंशतिः उत्कृष्टपदे चिन्त्यमाने परीपहाः वर्त्तन्ते, युगपदेकत्र प्राणिनीति गम्यते, 'जघन्यतः ' जघन्य | पदमाश्रित्य भवेदेकः परीषहः, ननूत्कृष्टपदे द्वाविंशतिरपि किं नैकत्र वर्त्तन्त इत्याह- 'सीउ सिण 'त्ति शीतोष्णे चर्या
Jain Education International
For Private & Personal Use Only
परीपहाध्ययनम्
२
॥ ७७ ॥
sinelibrary.org