________________
उतराध्य. १३
| गोकम्मंमि य तिविहो सच्चित्ताचित्तमीसओ चेव । भावे कम्मस्सुदओ तस्स उ दाराणिमे हुंति ॥ ६७ ॥
व्याख्या - नोकर्मणि पुनर्विचार्ये; चस्य पुनरर्थत्वाद्रव्यपरीषहः 'त्रिविधः 'त्रिभेदः, 'सचित्ताचित्तमीसओ' चि लुप्तनिर्दिष्टत्वाद्विभक्तेः सचित्तोऽचित्तो मिश्रक इति, समाहारो वा सचित्ताचित्तमिश्रकमिति, प्राकृतत्वाच्च पुंल्लिङ्गता; चः खगतानेकभेदसमुच्चये, एवोऽवधारणे इयन्त एवामी भेदाः, तत्र नोकर्मणि सचित्तद्रव्यपरीषहो गिरिनिर्झरजलादिः अचित्तद्रव्यपरीषहश्चित्रकचूर्णादिर्मिश्रद्रव्यपरीषहो गुडाईकादि, त्रयस्यापि कर्माभावरूपत्वात् श्रुत्परीषहजनकत्वाच्च, इत्थं पिपासादिजनकं लवणजलाद्यप्यनेकधा नोकर्म्मद्रव्यपरीषह इति स्वधिया भावनीयं, भावपरीषह आगमतो ज्ञाता तत्र चोपयुक्तो, नोआगमतस्तु नोशब्द स्यैकदेशवाचित्वे आगमैकदेशभूतमिदमेवाध्ययनं, निषेधवाचित्वे तु तदभावरूपः परीषहवेदनीयस्य कर्म्मण उदयः, तथा चाह - 'भावे कम्मस्स उदओ' त्ति कर्म्मण| इति पर पहवेदनीयकर्म्मणां बहुत्वेऽपि जात्यपेक्षयैकवचननिर्देशः 'तस्य च' भावपरषहस्य, 'द्वाराणि व्याख्यानमुखानि 'इमानि' अनन्तरवक्ष्यमाणानि भवन्तीति गाथार्थः ॥ ६७ ॥ तान्येवाह
| केत्तो कस्से व देवे समोऔर अहिऑस नए य वत्तणा कालो । खित्तुदेसे" पुच्छा निद्देसे" सुत्तफासे य॥६८॥ व्याख्या- 'कुत' इति कुतोऽङ्गादेरिदमुद्धृतं १, 'कस्य' इति कस्य संयतादेरमी परीपहाः २, 'द्रव्यम्' इति किममी
ational
For Private & Personal Use Only
w.jainelibrary.org