SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥ ७३ ॥ षामुत्पादकं द्रव्यं ३, 'समवतार' इति व कर्मप्रकृतौ पुरुषविशेषे वाऽमीषां सम्भवः ? ४, 'अध्यास' इति कथममीपामध्यासना सहनात्मिका १५, 'नय' इति को नयः कं परीषहमिच्छति ?, ६ चः समुच्चये, 'वर्त्तना' इति कति क्षुदादयः एकदैकस्मिन् खामिनि वर्त्तन्ते ७, 'काल' इति कियन्तं कालं यावत् परीषहास्तित्वं ८, 'खेत्ते' त्ति कतरस्मिन्कियति वा क्षेत्रे ९, 'उद्देशो' गुरोः सामान्याभिधायि वचनं १०, 'पृच्छा' तज्जिज्ञासोः शिष्यस्य प्रश्नः ११, 'निर्देश:' गुरुणा पृष्टार्थविशेषभाषणं १२, 'सूत्रस्पर्शः' सूत्रसूचितार्थवचनं १३, 'चः' समुच्चये, इति गाथासमासार्थः ॥ ६८ ॥ तत्र कुत इति प्रश्नप्रतिवचनमाह - कम्मप्पवाय पुढे सत्तरसे पाहुडंमि जं सुत्तं । सणयं सोदाहरणं तं चेव इहंपि णायां ॥ ६९ ॥ व्याख्या – कर्म्मणः प्रवादः - प्रकर्षेण प्रतिपादनमस्मिन्निति कर्मप्रवादं तच तत् पूर्व च तस्मिन् तत्र बहूनि प्राभृतानीति कतिथे प्राभृते इत्याह-सप्तदशे प्राभृते- प्रतिनियतार्थाधिकाराभिधायिनि यत् 'सूत्र' गणधरप्रणीतश्रुतरूपं 'सनयं' नैगमादिनयांन्वितं 'सोदाहरणं' सदृष्टान्तं, 'तं चेव' त्ति चः पूरणे एवोऽवधारणे, ततस्तदेव 'इहापि ' परीषहाध्ययने 'ज्ञातव्यम्' अवगन्तव्यं, न त्वधिकं किमुक्तं भवंति ? - निरवशेषं तत एवेदमुद्धृतं न पुनर - न्यत इति गाथार्थः ॥ ६५ ॥ कस्येति यदुक्तं तदुत्तरमाह Jain Education International For Private & Personal Use Only परीषहाध्ययनम् ॥ ७३ ॥ www.jaintelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy