SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥ ७२ ॥ आह-- 'नोआगमतस्तु' नोआगमं पुनराश्रित्य 'स' इति परीषहः 'त्रिविधः ' त्रिप्रकार इति गाथार्थः ॥ ६५ ॥ त्रैविध्यमेवाह | जाणगसरीर भविए तबइरित्ते य से भवे दुविहे । कम्मे नोकम्मे या कम्मंमि य अणुदओ भणिओ ॥६६॥ व्याख्या- 'जाणगसरीर' त्ति ज्ञायको ज्ञो वा तस्य शरीरं ज्ञायकशरीरं ज्ञशरीरं वा जीवरहितं सिद्धशिलातलगतं निपीधिकागतं वा अहो ! अमुना शरीरसमुच्छ्रयेणोपात्तेन परीषह' इति पदं शिक्षितम्, अयं घृतघटोऽभूदितिवत्संभाव्यमानं, तथा 'भविय'त्ति शरीरशब्दस्य काकाक्षिगोलकन्यायेनोभयत्र संबन्धात् भव्यशरीरं, तत्र भविष्यति - तेन तेनावस्थात्मना सत्तां प्राप्स्यति यः स भव्यो जीवस्तस्य शरीरं यदद्यापि परीपह इति पदं न शिक्षते एष्यति तु शि| क्षिष्यते तदयं घृतघटो भविष्यतीतिवत्संभाव्यमानं नोआगमतो द्रव्यपरीषहः, 'तवतिरिते य' त्ति ताभ्यां - ज्ञशरीर| भव्यशरीराभ्यां व्यतिरिक्तः - पृथग्भूतः तद्यतिरिक्तः, स च प्रकृतत्वाद् द्रव्यपरिषहो भवेत्, 'द्विविधः' द्विभेदः, कथ| मित्याह-क्रियते - मिथ्यात्वाविरतिकषाययोगानुगतेनात्मना निर्वर्त्यत इति कर्म तत्र - ज्ञानावरणादिरूपे, 'नोकर्मणि च' तद्विपरीतरूपे, चः समुच्चये, दीर्घत्वं च 'हखदीर्घौ मिथ' इति प्राकृतलक्षणात्, तत्राद्यमाह- कर्मणि विचार्ये, चः पूरणे, द्रव्यपरीपहः 'अनुदयः' उदयाभावः प्रक्रमात् परीपहवेदनीय कर्मणामेव, 'भणितः ' उक्त इति गाथार्थः ॥ ६६ ॥ द्वितीयभेदमाह - Jain Educatio!ational For Private & Personal Use Only परिषहा ध्ययनम् २ ॥ ७२ ॥ www.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy