________________
*****
LOCRACLOCCASESSAGROGRECOG
॥ श्रीजिनाय नमः।नमः सर्वविदे । व्याख्यातं विनयश्रुताख्यं प्रथममध्ययनम्, इदानी द्वितीयं व्याख्यायते, अस्य । चायमभिसम्बन्धः-इहानन्तराध्ययने विनयः सप्रपञ्चः पञ्चप्रकार उक्तः, स च किं खस्थावस्थैरेव समाचरितव्य उत परीषहमहासैन्यसमरसमाकुलितमनोभिरपि?, उभयावस्थैरपीति ब्रूमः । ननु तर्हि केऽमी परीषहाः, किंरूपाः?, किञ्चालम्बनमुररीकृत्यैतेषु सत्खपि न विनयविलङ्घनमित्याशङ्कापोहाय परिषहास्तत्वरूपादि चाभिधेयमित्यनेन सम्बन्धेनायातस्यास्य महार्थस्य महापुरस्येव चतुरनुयोगद्वारस्वरूपमुपवर्णनीयं, तत्र च नामनिष्पन्ननिक्षेपस्य परीषह इति नाम, अतस्तन्निक्षेपदर्शनायाह भगवानियुक्तिकारःणासो परीसहाणं चउविहो दुबिहो य(उ)दवंमि । आगमनोआगमतो-नोआगमओय सो तिविहो॥६५॥ | व्याख्या-नियतं निश्चितं वाऽऽसनं-नामादिरचनात्मकं क्षेपणं न्यासो-निक्षेप इत्यर्थः, अयं च केषामित्याह-परीति-समन्तातू खहेतुभिरुदीरिता मार्गाच्यवननिर्जरार्थ साध्वादिभिः सह्यन्त इति परीषहास्तेषां, चत्वारो विधाःप्रकारा अस्येति चतुर्विधो, नामस्थापनाद्रव्यभावभेदात्, तत्र नामस्थापने क्षुण्णे इत्यनादृत्य द्रव्यपरीषहमाह'द्विविधो' द्विभेदः, तुः पुरणे. भवति 'द्रव्य' इति द्रव्यविषयः, प्रक्रमात्परिषह, स च 'आगमणोआगमतो' त्ति आगमतो नोआगमतश्च, तत्र आगमतो ज्ञाता तत्र चानुपयुक्त इत्यागमखरूपमातपाराचतमिति परिहत्य नोआगमत १ अधिकार उपवर्णने वा इत्यध्याहार्यम् ।
*****
****
Lain Educatie
For Private & Personal use only