SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ बहुश्रुतस्यैव तथा तथा पूज्यताभिधानं, तथा च प्रयोगः-यद् येन विना न भवति तत् तन्निबन्धनमेव, यथा बीजाद्यविनाभावी तन्निबन्धन एवाङ्करः, ज्ञानाविनाभाविनीच मुक्त्यवाप्तिः, 'इती'त्येवं यः उपदेशः' सर्वस्य ज्ञाननिवन्धनत्वाभिधानरूपः, स किमित्याह-'नय' इति प्रस्तावात् ज्ञाननयः, नामेति वाक्यालङ्कारे, उक्तं हि-'इति जोत्ति एवमिह जो | उवएसो जाणणाणतो सो त्ति । अयं च ज्ञानदर्शनचारित्रतपउपचारात्मनि पञ्चविधे विनये ज्ञानदर्शनविनयावेवेच्छति, चारित्रतपउपचारविनयांस्तु तत्कार्यत्वात् तदायत्तत्वाच गुणभूतानेवेति गाथार्थः ॥ क्रियानयस्त्वाह-“सवेसिपि नयाणं बहुविहवत्तवयं निसामेत्ता । तं सवणयविसुद्धं जं चरणगुणढिओ साहू ॥१॥" 'सर्वेषामपी'ति नैगमादिनयोत्तरोत्तरभेदानामविशुद्धानां विशुद्धानां च, किं पुनर्मूलनयानां विशुद्धानामेवेत्यपिशब्दार्थः, 'नयानाम्' उक्तरूपाणां बहवो विधा:-प्रकारा यस्यां सा बहुविधा तां, 'वक्तव्यता' सामान्यमेव विशेषा एव उभयनिरपेक्षं चो(वो)भयं, यदिवा द्रव्यं पर्यायाःप्रकृतिः पुरुषो विज्ञानं शून्यमित्यादिखखाभिप्रायानुरूपार्थप्रतिपादनपरां निशम्य-आकर्ण्य, किमित्याह'तदिति वक्ष्यमाणं सर्वे निरवशेषास्ते च ते नयाश्च सर्वनयास्तेषां, विशुद्धं-निर्दोषतया सम्मतं, यत् किमित्याह-चर्यत इति चरणं-चारित्रं, गुणः साधनमुपकारकमित्यनन्तरं, ततश्चरणं चासौ गुणश्च निर्वाणात्यन्तोपकारितया चरणगु-15 इणस्तस्मिन् स्थितः-तदासेवितया निविष्टः, 'साधु'रिति साधयति पौरुषेयीभिः क्रियाभिरपवर्गमित्यन्वर्थनामतयोच्य १ इति य इति-एवमिह य उपदेशो ज्ञाननयः सः । Jain Education D etonal For Privale & Personal use only ww.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy