SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥६९॥ RECRUAROSECURIOSIONEDOS ते, अस्यायमाशयः-बहुविधायामपि वक्तव्यतायां क्रियात एव फलप्राप्तिः, तथाहि-तृप्त्यर्थी जलादिकमवलोकयन्नपि अध्ययनम् न यावत् पानादिक्रियायां प्रवृत्तस्तावत्तृप्तिलक्षणफलमवाप्नोति, अत एव सम्यग्ज्ञानमपि तदुपयोगितयैव विचार्यते, || तथा च तद्विचारप्रवृत्तैरुक्तम्-"न ह्याभ्यामर्थ परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां विसंवाद्यत" इति, आगमोऽप्येवमेवावस्थितः, यतस्तत्रापि क्रियाविकलं विफलमेव ज्ञानम्, उक्तं हि-“जहाँ खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स । एवं खु नाणी चरणेण हीणो, नाणस्स भागी न हु सुग्गईए ॥१॥" यदि च ज्ञानमेव मुक्तिसाधनं ज्ञानाविनाभाव्यनुत्तरदर्शनसम्पत्समन्वितानां दशाह सिंहादीनामपि स्यात् , अथ चाधोगतिगामिन एवैते श्रूयन्ते, यत आह-"दसारसीहस्स य सेणियस्स, पेढालपुत्तस्स य सच्चइस्स । अणुत्तरा सणसंपया तया, विणा चरित्तेणऽहरं गई गया ॥१॥" किञ्च-यदि ज्ञानमेव मुक्तिकारणमिष्यते, तदा यदुच्यते-'विहरति मुहूर्तकालं, देशोनां पूर्वकोटिं च' इत्येतदपि विरुध्येत, ज्ञानेपु निखिलवस्तुविस्तरपरिच्छेदकरूपतां बिभ्रत केवलज्ञानमेवोत्तममिति तत्समनन्तरमेव मुक्त्यवाप्तौ कथं विहरणसम्भवः, अतः सत्यपि ज्ञाने शैलेश्यवस्थाऽवाप्तौ सर्वसंवररूपक्रियाऽनन्तरमेव मुक्त्य| वाप्तिरिति क्रियाया एव मुक्तिकारणत्वं, प्रयोगश्चात्र-यद् यत्समनन्तरभावि तत् तत्कारणं, यथा पृथिव्यादिसामग्र्य १ यथा खरश्चन्दनभारवाही भारस्य भागी नैव चन्दनस्य । एवमेव ज्ञानी चरणेन हीनो ज्ञानस्य भागी नैव सद्गतेः॥ १ ॥२ दशाहसिंहस्य च श्रेणिकस्य पेढालपुत्रस्य च सत्यकिनः । अनुत्तरा दर्शनसंपदू तदा विना चारित्रेणाधमां गतिं गताः ॥१॥ For Private & Personal use only
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy