SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. अध्ययनम् बृहद्वृत्तिः ॥६६॥ स्तन्मनोरुचि-खप्रतिभासानुरूपं यथा भवत्येवं तिष्ठति, कया ?-'कर्मसम्पदा' यत्यनुष्ठानमाहात्म्यसमुत्पन्नपुलाकादिलब्धिसम्पत्त्या, पठन्ति च-'मणोरुई चिट्टइ कम्मसंपयं' तत्र च मनोरुचितफलसम्पादकत्वेन मनोरुचितां कर्मसम्पदं-शुभप्रकृतिरूपाम्, अनुभवन्निति शेषः, नागार्जुनीयास्तु पठन्ति-'मणिच्छियं संपयमुत्तमं गय'त्ति इह च सम्पदं-यथाख्यातचारित्रसम्पदं, अन्यत् सुगममेव, तपसः-अनशनाद्यात्मकस्य सामाचारीति-समाचरणं, यद्वा-तपश्च सामाचारी च-न्यक्षतो वक्ष्यमाणखरूपा समाधिश्व-चेतसः खास्थ्यं तैः संवृतः-निरुद्धाश्रवः तपःसामाचारीसमा|धिसंवृतः, यद्वा-तपःसामाचारीसमाधिभिः संवृतं-संवरणं यस्य स तथाविधः, महती द्युतिः-तपोदीप्तिस्तेजोलेश्या ६ वाऽस्येति महाद्युतिः, भवतीति गम्यते, किं कृत्वेत्याह-'पञ्च व्रतानि' प्राणातिपातविरमणादीनि, 'पालयित्वा'निरतिचारं संस्पृश्येति सूत्रार्थः॥४७॥ पुनरस्यैवेहिकमामुष्मिकं च फलं विशेषेणाह स देवगंधवमणुस्सपूइए, चइत्तु देहं मलपंकपुव्वयं । सिद्धे वा हवइ सासए, देवे वाऽप्परए महिड्डिए ॥ ४८॥ तिबेमि॥ व्याख्या-'स' तार विनीतविनयः, देवैः-वैमानिकज्योतिष्कैः गन्धर्वैश्च-गन्धर्वनिकायोपलक्षितैय॑न्तरभुवनपतिभिः मनुष्यैश्च-महाराजाधिराजप्रभृतिभिः पूजितः-अर्चितो देवगन्धर्वमनुष्यपूजितः, 'त्यक्त्वा' अपहाय 'देह' शरीरं RRRR Jain Education A nal For Private & Personal use only www.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy