________________
464643
स पुज्जसत्थे सुविनीयसंसए, मणोरुई चिट्ठइ कम्मसंपया ।
तवोसमायारीसमाहिसंबुडे, महज्जुई पंच वयाइँ पालिया ॥ ४७ ॥ (सूत्रम् ) व्याख्या – 'स' इति शिष्यः प्रसादितगुरोरधिगतश्रुतः पूज्यं सकलजनश्लाघादिना पूजार्ह शास्त्रमस्येति पूज्य - शास्त्रः, विनीतस्य हि शास्त्रं सर्वत्र विशेषेण पूज्यते, यदि वा प्राकृतत्वात्पूज्यः शास्ता गुरुरस्येति पूज्यशास्तृकः, विनीतो हि विनेयः शास्तारं पूज्यमपि विशेषतः पूजां प्रापयति, अथवा पूज्यश्चासौ शस्तश्च सर्वत्र प्रशंसास्पदत्वेन पूज्यशस्तः, सुष्ठु - अतिशयेन विनीत, -अपनीतः प्रसादितगुरुणैव शास्त्रपरमार्थसमर्पणेन संशयो - दोलायमानमानसात्मकोऽस्येति सुविनीत संशयः, सुविनीता वा संसत्-परिषदस्येति सुविनीत संसत्कः, विनीतस्य हि स्वयमतिशय विनीतैव परिषद्भवति, 'मणोरुई 'त्ति मनसः - चेतसः प्रस्तावाद् गुरुसम्बन्धिनी रुचिः - प्रतिभासोऽस्मिन्निति मनोरुचिः, 'तिष्ठति' आस्ते, विनयाधिगतशास्त्रो हि न कथञ्चिद्गुरूणामप्रीतिहेतुरिति, तथा 'कम्मसंपय'त्ति कर्म - क्रिया दशविधचक्रवालसामाचारीप्रभृतिरितिकर्तव्यता तस्याः सम्पत्-सम्पन्नता तया, लक्षणे तृतीया, ततः कर्मसम्पदोपलक्षितस्तिष्ठतीति सम्बन्धः, हेतौ वा तृतीया, मनोरुचित्वापेक्षया च हेतुत्वम्, अथवा मनोरुचितेव मनोरुचिता तिष्ठति आस्ते कर्मणां - ज्ञानावरणादीनां सम्पद्-उदयादीरणादिरूपा विभूतिः कर्मसम्पद्, अस्येति गम्यते, तदुच्छेदशक्तियुक्ततयाऽस्य प्रतिभासमानतयेव तत्स्थितेरुपलक्ष्यमाणत्वात्, पठ्यते च - 'मणारुइ'त्ति तत्र मनसो रुचिः - अभिलाषो यस्मिं
Jain Education International
For Private & Personal Use Only
ainelibrary.org