SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्भुत्तिः नोति, उभयमपि प्रक्रमान्नन्तुरेव 'जायते' प्रादुर्भवति, स एव भवति 'कृत्यानाम्' उचितानुष्ठानाना कलुषान्तःकर- अध्ययनम् णवृत्तिभिरविनीतविनयैरतिदूरमुत्सादितानां 'शरणम्' आश्रय इत्यर्थः, केषां केव ?-भूतानां' प्राणिनां 'जगती' पृथ्वी यथेति सूत्रार्थः॥४५॥ ननु विनयः पूज्यप्रसादनफलः, ततोऽपि च किमवाप्यत इत्याह पूजा जस्स पसीयंति, संबुद्धा पुवसंथुया । पसन्ना लंभइस्संति, विउलं अट्रियं सुयं ॥४६॥ (सूत्रम्) 8व्याख्या-पूजयितुमर्हाः पूज्या-आचार्यादयः 'यस्य' इति विवक्षितशिष्योपदर्शकं सर्वनाम 'प्रसीदन्ति' तुष्य|न्ति 'सम्बुद्धाः' सम्यगवगतवस्तुतत्त्वाः, पूर्व-वाचनादिकालादारतो न तु वाचनादिकाल एव, तत्कालविनयस्य कृत-/3I प्रतिक्रियारूपत्वेन तथाविधप्रसादाजनकत्वात् , संस्तुता-विनयविषयत्वेन परिचिताः सम्यकस्तुता वा सद्भूतगुणोकीर्तनादिभिः पूर्वसंस्तुताः, शेषविनयोपलक्षणमेतत् , 'प्रसन्ना' इति सप्रसादाः, पठ्यते च-'सम्पन्नाः' ज्ञानादिगुणपरिपूर्णाः सम्यग-अविपरीता प्रज्ञा येषां ते सत्प्रज्ञा वा, 'लम्भयिष्यन्ति' प्रापयिष्यन्ति, किमित्याह-'विपुलं'विस्ती , अर्यत इत्यर्थो-मोक्षः स प्रयोजनमस्येत्यार्थिकं, तदस्य "प्रयोजन" (पा०५-१-१०९) मिति ठकू, अथवाअर्थः स एव प्रयोजनरूपोऽस्यास्तीत्यार्थिकः, अत इनिठना (पा०५-२-११५)विति ठन् , 'श्रुतम्' अङ्गोपाङ्गप्रकी कादिभेदमाग, न तु हरहरिहिरण्यगर्भादिवत् साक्षात् वर्गादिकम् , अनेन पूज्यप्रसादस्यानन्तरफलं श्रुतमुक्तं, व्यवहितफलं तु मुक्तिरिति सूत्रार्थः॥४६॥ सम्प्रति श्रुतावाप्तौ तस्यैहिकफलमाह सा॥६५॥ Jain Educat i onal For Privale & Personal use only jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy