SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ 18| बलवद्विनीतधुर्यः प्रतोदोत्क्षेपमपि न सहते, कुतस्तन्निपतनम् ?, एवमयमप्यचोदित एव प्रतिप्रस्तावं गुरुकृत्येषु प्रव-10 तत इति कुतःप्रेरितत्वमस्य ?, 'नित्यं सदा, न कदाचिदेव, स्वयं प्रवर्तमानोऽपि प्रेरितोऽनुशयवानपि स्यादिति कदाशङ्कापनोदायाह-'क्षिप्रम्' इति शीघ्रं भवति 'सुचोयए' त्ति शोभने प्रेरयितरि, गुराविति गम्यते, सोपस्कारत्वाच क्षिप्रमेव प्रेरके सति कृत्येषु वर्त्तते, नानुशयतो विलम्बितमेव, पठ्यते च-'वित्ते अचोइए खिप्पं, पसन्ने थामवं करें' इति, अत्र च 'प्रसन्नः' प्रसत्तिमान् , नाहमाज्ञापित इत्यप्रसन्नो भवति, किन्तु ममायमनुग्रह इति मन्यते. क्षिप्रमेव च तत्करते. 'थामवंति स्थाम-बलं तद्वान् , किमुक्तं भवति ?-सति बले करोति, असति च सद्भावमेवाऽऽख्याति. यथाऽहमनेन कारणेन न शक्नोमीति । क्षिप्रमपि कुर्वन् कदाचिद्विपरीतमर्धविहितं वा विदध्यात् तद्वयवच्छेदायाह-'यथोपदिष्टम्' उपदिष्टानतिक्रमेण, 'सुकृतं' सुष्टु परिपूर्ण कृतं यथा भवत्येवं कृत्यानि 'करोति। निर्वतयति, सदा सता वा शभिनेन प्रकारणेति सूत्रार्थः ॥४४॥ सम्प्रत्युपसंहर्तुमाहणच्चा णमइ मेहावी, लोए कित्ती य जायइ। किच्चाणं सरणं होई, भूयाणं जगई जहा ॥४५॥ (सूत्रम्) व्याख्या ज्ञात्वा' अनन्तरमखिलमध्ययनार्थमवगम्य 'नमति' तत्कृत्यकरणं प्रति प्रह्वीभवति 'मेधावी' एतदध्ययनार्थावधारणशक्तिमान् मर्यादावर्ती वा, तद्गुणं वक्तुमाह-लोके कीर्तिः-सुलब्धमस्य जन्म निस्तीर्णरूपो भवोदधिरनेनेत्यादिका श्लाघा चशब्द:-'एकदिग्व्यापिनी कीर्तिः, सर्वदिग्व्यापकं यशः' इति प्रसिद्धेयशश्चेति समुचि-IN For Privale & Personal use only Jain Educationa lional nelebrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy