________________
अध्ययनम्
बृहद्धृत्तिः
उत्तराध्य. 18वा मम विनेय इति न दण्डनीय इति ज्ञापनार्थ च धर्म्यजीतविशेषणं, पठन्ति च-'तमायरंतो मेहाविपत्ति सुगममे
वेति सूत्रार्थः ॥४२॥ किंबहुना?
मणोगयं वकगयं, जाणित्ताऽऽयरियस्स उ । तं परिगिज्झ वायाए, कम्मुणा उववायए ॥४३॥(सूत्रम्) ॥६४॥
___ व्याख्या-मनसि-चेतसि गतं-स्थितं मनोगतं तथा वाक्ये-वचनरचनात्मनि गतं वाक्यगतं, कृत्यमिति शेषः, वाक्यग्रहणं तु पदस्यापरिसमाप्तार्थाभिधायित्वेन क्वचिदप्रयोजकत्वात् , 'ज्ञात्वा' अवबुध्य 'आचार्यस्य' विनयाहस्य गुरोः, तुशब्दः कायगतकृत्यपरिग्रहार्थः, 'तत्' मनोगतादि 'परिगृह्य' अङ्गीकृत्य 'वाचा' वचसा इदमित्थं करोमीत्यात्मकेन 'कर्मणा' क्रियया तन्निर्वर्तनात्मिकया तदुपपादयत्-विदधीत, पठन्ति च-'मणोरुइं वक्करई, जाणित्ताऽऽयरियस्स उ'अत्रच मनसि रुचिः-अभिलाषस्तामाचार्यस्य ज्ञात्वा-इदममीषां भगवतामभिमतमित्यवगम्य, वाक्ये रुचिः
पर्यवसितकार्यवाञ्छा तां च, शेषं प्राग्वत् , अनेन सूक्ष्मो विनय उक्त इति सूत्रार्थः॥४३॥ स चैवं विनीतविनयततया यादृक् स्यात्तदाहवित्ते अचोइए निच्चं, खिप्पं हवइ सुचोयए । जहोवइष्टुं सुकडं, किच्चाई कुबई सया ॥४४॥ (सूत्रम्) व्याख्या-'वित्ते' इति विनीतविनयतयैव सकलगुणाश्रयतया प्रतीतः प्रसिद्ध इतियावत्, 'अचोइए'त्ति यथा हि
॥ ६ ॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org