________________
Jain Education
| यथा-भगवन् ! प्रमादाचरितमिदं मम क्षमितव्यं, न पुनरित्थमाचरिष्यामीति सूत्रार्थः ॥ ४१ ॥ साम्प्रतं यथा निरपवादतयाऽऽचार्यकोप एव न स्यात् तथाऽऽह
धम्मज्जियं च ववहारं, बुद्धेहाऽऽयरियं सया । तमायरंतो ववहारं, गरहं नाभिगच्छइ ॥ ४२ ॥ (सूत्रम् )
व्याख्या - धर्मेण - क्षान्त्यादिरूपेणार्जितम् - उपार्जितं धर्मार्जितं, न हि क्षान्त्यादिधर्मविरहित इमं प्राप्नोतीति, 'चः’ पूरणे, विविधं विधिवद्वाऽवहरणमनेकार्थत्वादाचरणं व्यवहारस्तं - यतिकर्तव्यतारूपं, 'बुद्धैः' अवगततत्त्वैः आचरितं, 'सदा' सर्वकालं, 'त'मिति सदावस्थिततया प्रतीतमेव 'आचरन्' व्यवहरन्, यद्वा-यत्तदोर्नित्याभिसम्बन्धात् सुव्यत्ययाच धर्मार्जितो बुद्धैराचरितश्च यो व्यवहारस्तमाचरन् - कुर्वन्, विशेषेणापहरति पापकर्मेति व्यवहारस्तं, व्यवहारविशेषणमेतत्, एवं च किमित्याह - 'गर्हाम्' अविनीतोऽयमित्येवंविधां निन्दां 'नाभिगच्छति' न प्राप्नोति, यतिरिति गम्यते । यद्वा - आचार्यविनयमनेनाह, तत्र धर्मादनपेतो धम्र्म्या-न धर्मातिक्रान्तः, 'जियं च ववहारं ति प्राकृतत्वाचस्य भिन्नक्रमत्वाज्जीतव्यवहारश्च, अनेन चागमादिव्यवहारव्यवच्छेदमाह, अत एव 'बुद्धैः' आचार्यैराचरितः सदा-सर्वकालं | त्रिकालविषयत्वात् जीतव्यवहारस्य, य एवंविधो व्यवहारस्तं व्यवहारं - प्रमादात् स्खलितादौ प्रायश्चित्तदानरूपमाच - रन् 'ग' दण्डरुचिरयं निर्घृणो वेत्येवंरूपां जुगुप्सां नाभिगच्छति, आचार्य इति शेषः, न चायं निजक उपकारी
onal
For Private & Personal Use Only
ainelibrary.org