SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 'मलपंकपुष्वर्य'ति जीवशुद्धयपहारितया मलवन्मलः स चासौ 'पावे वजे वेरे पंके पणए यत्ति वचनात् पङ्कश्च कममलपङ्कः स पूर्व-कार्यात् प्रथमभावितया कारणमस्येति मलपङ्कपूर्वकं, यद्वा-'माओउयं पिऊसुकं'त्ति वचनात् रक्तशुक्र एव मलपङ्को तत्पूर्वकं, "सिद्धो वा' निष्ठितार्थो वा 'भवति' जायते 'शाश्वतः' सर्वकालावस्थायी, न तु परपरिकल्पिततीर्थनिकारादिकारणतः पुनरिहागमवानशाश्वतः, सावशेषकर्मवांस्तु देवो वा भवति, 'अप्परए'त्ति अल्पमितिअविद्यमानं रतमिति-क्रीडितं मोहनीयकर्मोदयजनितमस्येति अल्परतो-लवसप्तमादिः, अल्परजा वा प्रतनुबध्यमानकर्मा, महती-महाप्रमाणा प्रशस्या वा ऋद्धिः-चक्रवर्तिनमपि योधयेत् इत्यादिका विकरणशक्तिः तृणाग्रादपि हिरण्यकोटिरित्यादिरूपा वा समृद्धिरस्येति महर्द्धिकः, देवविशेषणं वा, 'इतिः' परिसमाप्तावेवमर्थे वा, एतावद्विनयश्रुतमनेन वा प्रकारेण 'ब्रवीमि' इति गणभृदादिगुरूपदेशतः, न तु खोप्रेक्षया इति ॥ ४८ ॥ उक्तोऽनुगमः, सम्प्रति चतुर्थमनुयोगद्वारं नया इति, नयति-अनेकांशात्मकं वस्त्वेकांशावलम्बनेन प्रतीतिपथमारोपयति नीयते दवा तेन तस्मिंस्ततो वा नयनं वा नयः-प्रमाणप्रवृत्त्युत्तरकालभावी परामर्श इत्यर्थः, उक्तं च-"सै नयइ तेण तहिं वा ततोऽहवा वत्थुणो व जंणयणं । बहुहा पज्जायाणं संभवओ सो णतो णामं ॥१॥" ननु सन्त्वमी नयाः, एषां तु| १ पापं वजं वैरं पङ्कः पनकश्च. २ मातुरात्तवं पितुः शुक्रम् . ३ स नयति तेन तत्र वा ततोऽथवा वस्तुनो वा यन्नयनम् । बहुधा पर्यायाणां संभवतः स नयो नाम ॥ १॥ उत्तराज्य १२. in Education M For Private & Personal Use Only elibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy