SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ अध्ययनम् उत्तराध्य. प्रतिकृतं, सुष्ठु पक्कं मांसाशनादि, सुच्छिन्नोऽयं न्यग्रोधपादपादिः, सुहृतं कदर्यादर्थजातं, सुहतो वा चौरादिः, सुमृतोऽयं ते प्रत्यनीकधिग्वर्णादिः, सुनिष्ठितोऽयंप्रासादकूपादिः, 'सुलहित्ति शोभनोऽयं करितुरगादिरिति सामान्येनैव सावधं वचो बृहद्धृत्तिः वर्जयेन्मुनिः। निरवद्यं तु सुकृतमनेन धर्मध्यानादि, सुपक्कमस्य वचनविज्ञानादि, सुच्छिन्नं स्नेहनिगडादि, सुहृतमुप॥६१॥ करणमशिवोपशान्तये, सुहतं वा कर्मानीकादि, सुमृतमस्य पण्डितमरणमतुः, तथा सुनिष्ठितोऽसौ साध्वाचारविषये, 'सुलहित्ति शोभनमस्य तपोऽनुष्ठानमित्यादिरूपं, कारणतो वा-“पयत्तपक्केत्ति व पकमालवे, पयत्तछिन्नत्ति व छिन्नमालवे । पयत्तलखेत्ति व कम्महे उयं, पहारगाढेत्ति व गाढमालवे ॥१॥” इत्यातोपदेशात् प्रयत्नकृतपक्कादिरूपं वदेदपीति, अस्मिंश्च पक्षे प्रतिरूपयोगयोजनात्मको वाचिकविनय उक्त इति सूत्रार्थः ॥ ३६॥ विनय एवादरख्यापनाय सुविनीतेतरोपदेशदानतो यद्गुरोर्भवति तदुपदेशयितुमाहरमए पंडिए सासं, हयं भदं व वाहए । बालं सम्मइ सासंतो, गलिअस्समिव वाहए ॥३७॥ (सूत्रम्) । व्याख्या-'रमते' अभिरतिमान् भवति, 'पण्डितान्' विनीतविनेयान् , 'शासत्' इत्याज्ञापयन् कथञ्चित् प्रमादस्खलिते शिक्षयित्वा, गुरुरिति शेषः, कमिव कः ? इत्याह-हयमिव' अश्वमिव, कीदृशम् ?-भाति भन्दते वा १ प्रयत्नपक्क इति वा पकमालपेत् , प्रयत्नच्छिन्न इति वा छिन्नमालपेत् । प्रयत्नलष्ट इति वा कर्महेतुकं, प्रहारगाढ इति वा गाढमालपेत् ॥१॥ ॥६१॥ Jain Education International For Private & Personal use only
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy