________________
KRISEXECRENCE
भद्रस्तं-कल्याणावह 'वाहकः' अश्वन्दमः, 'बालम' अज्ञं 'श्राम्यति' खिद्यते शासत् , स हि सकृदुक्त एव न
कृत्येपु प्रवतेते, तत इदं कुरु इदं च मा कार्कीरित्यादि पुनः पुनस्तमाज्ञापयन् शिक्षयित्वा, कमिव कः? इत्याह-गहै लिम्' उक्तरूपमश्वमिव वाहक इति सूत्रार्थः ॥ ३७॥ गुरोः श्रमहेतुत्वमुद्भावयन् बालस्याभिसन्धिमाह। खड्डयाहिं चवेडाहिं, अकोसेहि वहेहि य । कल्लाणमणुसासंतं, पावदिट्ठित्ति मन्नइ ॥ ३८॥ (सूत्रम्) ६ व्याख्या-'खड्काभिः' टक्कराभिः 'चपेटाभिः' करतलाघातैः 'आक्रोशैः' असत्यभाषणैः 'वधैश्च' दण्डिकादि
घातैः, चशब्दादन्यैश्चैवंप्रकारैर्दुःखहेतुभिरनुशासनप्रकारस्तमाचार्य 'कल्याणम्' इहपरलोकहितम् ‘अनुसासन्त' शिक्षयन्तं, पापा दृष्टि:-बुद्धिरस्येति पापदष्टिः, अयमाचार्य इति मन्यते, यथा-पापोऽयं मां हन्ति निघेणत्वात् , चारकपालकवत् , पठन्ति च-'खड्डया में' इत्यादि, अत्र व्यवच्छेदफलत्वाद वाक्यस्य खड्डकादय एव मम नापरं किञ्चित् समीहितमस्तीत्यभिसन्धिना कल्याणमनुशासन(त)माचार्य पापदृष्टिं मन्यते, यद्वा-वाग्भिरप्यनुशास्यमानोऽसौ खड्डुकादिरूपा वाचो मन्यत इति सूत्रार्थः ॥ ३८ ॥ गुरोरतिहितत्वं प्रचिकाशयिपुर्विनीताभिसन्धिमाहपुत्तो मे भाय नाइत्ति, साहू कल्लाण मन्नइ। पावदिट्ठि उ अप्पाणं, सासंदासं व मन्नइ ॥३९॥(सूत्रम्) __व्याख्या-पुत्रो मे भ्राता ज्ञातिरिति, अत्रेवार्थस्य गम्यमानत्वात् पुत्र इवेत्यादिवुद्ध्याऽऽचार्यों मामनुशास्तीति |
Jain Education
i
n
For Privale & Personal use only
nelibrary.org