SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ अध्ययनम् उत्तराध्य. बृहद्वत्तिः लब्धिमानिति मदाध्मातमानसः, नीचोऽत्यन्तावनतकन्धरो निम्नस्थानस्थितो वा द्रव्यतः भावतस्तु न मयाऽद्य किञ्चित् कुतोऽप्यवाप्तमिति दैन्यवान् , उभयत्र वा समुच्चये, तथा 'नासन्ने' समीपवर्तिनि 'नातिदूरे' अतिविप्रकर्षवति । प्रदेशे, स्थित इति गम्यते, यथायोगं जुगुप्साशङ्कषणाशुद्धयसम्भवादयो दोषाः, अथवा अत एव नासन्नो नातिदूरगः, प्रगता असव इति सूत्रत्वेन मतुबलोपादसुमन्तः-सहजसंसक्तिजन्मानो यस्मात् तत् प्रासुकं, परेण-गृहिणाऽऽत्मार्थ परार्थ वा कृतं-निर्वर्तितं परकृतं, किं तत् ?-'पिण्डम्' आहारं 'प्रतिगृह्णीयात् ' स्वीकुर्यात् , 'संयतः' यतिरिति सूत्रार्थः ॥ ३४ ॥ इत्थं सूत्रद्वयेन गवेषणाग्रहणैषणाविषयं विधिमुक्त्वा ग्रासैषणाविधिमाह अप्पपाणेऽप्पबीए वा,पडिच्छन्ने य संवुडे । समयं संजओ भुंजे,जयं अप्परिसाडिय॥३५॥(सूत्रम्) व्याख्या-अल्पशब्दोऽभावाभिधायी, तथेहापि सूत्रत्वेन मत्वर्थीयलोपात् प्राणाः-प्राणिनस्ततश्चाल्पा-अविद्यमानाः प्राणाः-प्राणिनो यस्मिंस्तदल्पप्राणं तस्मिन्-अवस्थितागन्तुकजन्तुविरहिते, उपाश्रयादाविति गम्यते, तथा अल्पानि-अविद्यमानानि बीजानि-शाल्यादीनि यस्मिंस्तदल्पबीतस्मिन् , उपलक्षणत्वाचास्य सकलैकेन्द्रियविरहिते, ननु चाल्पप्राण इत्युक्ते अल्पवीज इति गतार्थ, बीजानामपि प्राणत्वाद् , उच्यते, मुखनासिकाभ्यां यो निर्गच्छति | वायुः स एवेह लोके रूढितः प्राणो गृह्यते, अयं च द्वीन्द्रियादीनामेव संभवति, न बीजायेकेन्द्रियाणामिति कथं गतार्थता ?, तत्रापि 'प्रतिच्छन्ने' उपरिप्रावरणान्विते, अन्यथा सम्पातिमसत्त्वसम्पातसम्भवात् , 'संवृते' पार्थतः ॥६ ॥ Jain Education International For Privale & Personal Use Only www.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy