________________
दानानवगमप्रसङ्गाद् एषणाशुद्धयसम्भवाच, तथा 'अणासण्णे'त्ति प्रसज्यप्रतिषेधार्थत्वात् नञोऽनासन्ने प्रस्तावान्नाति-13
निकटवर्तिनि भूभागे तिष्ठेत् , तत्र पुराप्रविष्टापरभिक्षुकाप्रीतिप्रसक्तेः 'नान्येषां भिक्षुकापेक्षया परेषां गृहस्थानां| ना'चक्षुःस्पशेत' इति सप्तम्यर्थे तसिः, ततः चक्षुःस्पर्श-दृग्गोचरे चक्षुःस्पर्शगो वा दृग्गोचरगतः 'तिष्ठेत् ' आसीत, किन्तु विविक्तप्रदेशस्थो यथा न गृहिणो विदन्ति,यदुत-एष भिक्षुको निष्क्रमणं प्रतीक्षत इति,तथा एगो'त्ति किममी मम पुरतः प्रविष्टा इति तदुपरि द्वेपरहितः 'भक्तार्थ भोजननिमित्तं, न च 'लंपित्त'त्ति उल्लङ्ध्य, 'तम्' इति |भिक्षुकम् , 'अतिक्रामेत्' प्रविशेत् , तत्रापि तदप्रीत्यपवादादिसम्भवाद् । इह च मितं कालेन भक्षयेदिति भोजन-1 मभिधाय यत्पुनर्भिक्षाटनाभिधानं तत् ग्लानादिनिमित्तं स्वयं वा बुभुक्षावेदनीयमसहिष्णोः पुनर्भमणमपि न दोषायेति ज्ञापनार्थम् , उक्तं च-"जइ तेण न संथरे। तओ कारणमुप्पण्णे,भत्तपाणं गवेसए ॥१॥"इत्यादि, सूत्रार्थः।। पुनस्तद्गतविधिमेवाभिधित्सुराह___ नाइउच्चे नाइनीए, नासन्ने नाइदूरओ। फासुयं परकडं पिंडं, पडिगाहिज्ज संजए॥३४॥ (सूत्रम्)/21
व्याख्या-'नात्युचे' प्रासादोपरिभूमिकादौ नीचे वा-भूमिगृहादौ, तत्र तदुत्क्षेपनिक्षेपनिरीक्षणासम्भवाद् । दायकापायसम्भवाच, यद्वा 'नात्युचः' उच्चस्थानस्थितत्वेन ऊर्कीकृतकन्धरतया वा द्रव्यतो भावतस्त्वहो ! अहं १ यदि तेन न संस्तरेत् । ततः कारण उत्पन्ने, भक्तपानं गवेषयेत् ।। १ ॥
Jain Educativ
ational
For Privale & Personal use only
A
w.jainelibrary.org