________________
न्तीति 'पेहाएत्ति' एकारस्थालाक्षणिकत्वात् प्रेक्ष्य-आलोच्य प्रेक्षया वा एवंविधबुद्धा ‘पयतो'त्ति प्रयतः-प्रयत्नवान् , पदतो वा-तथाविधानुस्मर्यमाणसूत्रालापकादिति सूत्रार्थः ॥ २७ ॥ किमिह परत्र चात्यन्तोपकारि गुरुवचनमपि कस्यचिदन्यथा सम्भवति ?, येनैवमुपदिश्यते इत्याहअणुसासणमोवायं, दुक्कडस्स य पेरणं । हियं तं मन्नए पन्नो, वेस्सं भवइ असाहुणो॥ २८ ॥ (सूत्रम् )|| __ व्याख्या-'अनुशासनम्' उक्तरूपम् 'ओवाय'ति उपाय-मृदुपरुषभाषणादौ भवमौपायं, यद्वा ‘ओवायंति' सूत्रत्वात् उपपतनमुपपातः-समीपभवनं तत्र भवमोपपातं-गुरुसंस्तारास्तरणविश्रामणादिकृत्यं 'दुष्कृतस्य च' कुत्सिताचरितस्य प्रेरणं-हा ! किमिदमित्थमाचरितमित्याद्यात्मकं, गुरुविहितमिति गम्यते, 'हितम्' इहपरलोकोपकारि, 'तदि'त्यनुशासनादि मन्यते 'प्राज्ञः' प्रज्ञावान् 'द्वेष्यं' द्वेपोत्पादकं भवति' जायते, कस्य ?-'असाधोः' अपगतभावसाधुत्वस्य, तदनेनासाधोर्गुरुवचनस्याप्यन्यथात्वसम्भव उक्त इति सूत्रार्थः ॥ २८ ॥ अमुमेवार्थ व्यक्तीकर्तुमाहहियं विगयभया बुद्धा, फरुसमप्पणुसासणं । वेस्सं तं होइ मूढाणं, खंतिसुद्धिकरं पयं ॥२९॥ (सूत्रम्) __व्याख्या-'हितं' पथ्यं 'विगतभयाः' सप्तभयरहिताः 'बुद्धाः' अवगततत्त्वाः, मन्यन्त इति शेषः, 'परुषमपि' कर्कशमपि, अनुशासनं शिष्याणां गुरुविहितमिति प्रक्रमः, 'द्वेष्यं' द्वेषोत्पादि 'तद्' इत्यनुशासनं भवति 'मूढानाम्'
Jain Educati
onal
For Privale & Personal use only
lainelibrary.org