SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ अध्ययनम् उत्तराध्य. पन्नेव चोर्द्धस्थानस्थो न भवेत् , 'न संलपेत् ' न तयैव सह संभापं कुर्यात् , अत्यन्तदुष्टतोद्भावनपरं चैकग्रहणम् , अन्यथा ससहायस्यापि ससहायया अपि च स्त्रिया सहावस्थानं सम्भाषणं चैवंविधास्पदेषु दोषायैव, प्रवचनमालिबृहद्वृत्तिः न्यादिदोषसम्भवात् , अथवा सममरिभिर्वर्तन्त इति समरा द्रव्यतो जनसंहारकारिणः संग्रामाः भावात्तु स्त्रीणामरि॥ ५७॥ भूतत्वात् ज्ञानादिजीवखतत्त्वघातिनः तासामेव दृष्ट्या दृष्टिसम्बन्धाः, तत्रेह भावसमरैरधिकारः, सप्तमी चेयं, ततोऽयं भावार्थः-द्रव्यसमरा हि न स्युरपि प्राणापहारिणः, भावसमरास्तु ज्ञानादिभावप्राणापहारिण एव, विशेषततस्त्वेकाकितायां, तत एवमेतेष्वपि दारुणेषु भावसमरेषु सत्सु नैक एकस्त्रिया सार्द्धमगारादिषु तिष्ठेत् संलपेद्वा, अनेनापि चारित्रविनय एवोक्तः, उपदेशाधिकाराच न पौनरुक्त्यम् , एवमन्यत्रापि भावनीयमिति सूत्रार्थः॥२६॥ कदाचित् स्खलिते च गुरुभिः शिक्षितो यत्कुर्यात् तदेवाहदाज मे बुद्धाणुसासंति, सीएण फरुसेण वा । मम लाभुत्ति पेहाए, पयओ य (तं) पडिस्सुणे॥२७॥(सूत्रम्) ___ व्याख्या-यन्मां बुद्धा 'अनुशासन्ति' शिक्षा ग्राहयन्ति 'शीतेन' सोपचारवचसा, 'शीलेन वेति पाठः, तत्र शीलं-महाव्रतादि उपचारात्तजनकं वचोऽपि शीलं तेन, यद्वा 'शील समाधौ' ततः शीलेन-समाधानकारिणा-भद्र ! भवादृशामिदमनुचितमित्यादिना, 'परुषेण' कर्कशेन, उभयत्र वचसेति गम्यते, तत् 'प्रतिशृणुयात्' विधेयतया अङ्गीकुर्यादित्युत्तरेण सम्बन्धः, किमभिसन्धायेत्याह-मम 'लाभः' अप्राप्तार्थप्राप्तिरूपः, यन्मामनाचारकारिणममी शास ॥५७॥ Jain Education ininelibrary.org For Private & Personal Use Only tional
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy